वांछित मन्त्र चुनें

द्वे स॑मी॒ची बि॑भृत॒श्चर॑न्तं शीर्ष॒तो जा॒तं मन॑सा॒ विमृ॑ष्टम् । स प्र॒त्यङ्विश्वा॒ भुव॑नानि तस्था॒वप्र॑युच्छन्त॒रणि॒र्भ्राज॑मानः ॥

अंग्रेज़ी लिप्यंतरण

dve samīcī bibhṛtaś carantaṁ śīrṣato jātam manasā vimṛṣṭam | sa pratyaṅ viśvā bhuvanāni tasthāv aprayucchan taraṇir bhrājamānaḥ ||

पद पाठ

द्वे इति॑ । स॒मी॒ची इति॑ सम्ऽई॒ची । बि॒भृ॒तः॒ । चर॑न्तम् । शी॒र्ष॒तः । जा॒तम् । मन॑सा । विऽमृ॑ष्टम् । सः । प्र॒त्यङ् । विश्वा॑ । भुव॑नानि । त॒स्थौ॒ । अप्र॑ऽयुच्छन् । त॒रणिः॑ । भ्राज॑मानः ॥ १०.८८.१६

ऋग्वेद » मण्डल:10» सूक्त:88» मन्त्र:16 | अष्टक:8» अध्याय:4» वर्ग:13» मन्त्र:1 | मण्डल:10» अनुवाक:7» मन्त्र:16


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (मनसा विमृष्टम्) मन में विमर्शनीय-विचारणीय (जातम्) जनक (चरन्तम्) सर्वत्र विचरण करते हुए विभुगति करते हुए परमात्मा को (द्वे समीची) दो साम्मुख्य से वर्तमान द्युलोक पृथिवीलोक (शीर्षतः-बिभ्रतः) शिरोरूप से धारण करते हैं (सः) वह (तरणिः) दुःख से तारक (भ्राजमानः) प्रकाशमान (विश्वा भुवनानि) सारे भूतों के प्रति (अप्रयुच्छन्) प्रमाद न करता हुआ-निरन्तर (प्रत्यङ् तस्थौ) अन्दर रहता है ॥१६॥
भावार्थभाषाः - परमात्मा जो इस द्यावापृथिवीमय जगत् का शासन करता है, सबका उत्पन्नकर्ता सब में व्यापक निरन्तर रहनेवाला दुःख से तारनेवाला ज्ञानदाता है ॥१६॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (मनसा विमृष्टम्) मनसा विमर्शनीयं विचारणीयं मननीयम् “मृश आमर्शने” [तुदा०] ‘औणादिकः क्तः प्रत्ययः’ (जातम्) जनकं जगत्कर्तारं परमात्मानं (चरन्तम्) सर्वत्र विचरन्तं विभुगतिं कुर्वाणम् (द्वे समीची शीर्षतः-बिभ्रतः) उभे सङ्गम्यमाने द्यावापृथिव्यौ शिरोरूपतो धारयति (सः) परमात्मा (तरणिः-भ्राजमानः) दुःखात् तारकः प्रकाशमानः (विश्वा भुवनानि) सर्वाणि भूतानि (अप्रयुच्छन्) अप्रमाद्यन् (प्रत्यङ् तस्थौ) सर्वान्तरे तिष्ठति ॥१६॥