वांछित मन्त्र चुनें

ती॒क्ष्णेना॑ग्ने॒ चक्षु॑षा रक्ष य॒ज्ञं प्राञ्चं॒ वसु॑भ्य॒: प्र ण॑य प्रचेतः । हिं॒स्रं रक्षां॑स्य॒भि शोशु॑चानं॒ मा त्वा॑ दभन्यातु॒धाना॑ नृचक्षः ॥

अंग्रेज़ी लिप्यंतरण

tīkṣṇenāgne cakṣuṣā rakṣa yajñam prāñcaṁ vasubhyaḥ pra ṇaya pracetaḥ | hiṁsraṁ rakṣāṁsy abhi śośucānam mā tvā dabhan yātudhānā nṛcakṣaḥ ||

पद पाठ

ती॒क्ष्णेन॑ । अ॒ग्ने॒ । चक्षु॑षा । र॒क्ष॒ । य॒ज्ञम् । प्राञ्च॑म् । वसु॑ऽभ्यः । प्र । न॒य॒ । प्र॒ऽचे॒तः॒ । हिं॒स्रम् । रक्षां॑सि । अ॒भि । शोशु॑चानम् । मा । त्वा॒ । द॒भ॒न् । या॒तु॒ऽधानाः॑ । नृ॒ऽच॒क्षः॒ ॥ १०.८७.९

ऋग्वेद » मण्डल:10» सूक्त:87» मन्त्र:9 | अष्टक:8» अध्याय:4» वर्ग:6» मन्त्र:4 | मण्डल:10» अनुवाक:7» मन्त्र:9


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (नृचक्षः-अग्ने) हे राष्ट्र के नेता जनों के द्रष्टा अग्रनायक सेनानी ! (तीक्ष्णेन-चक्षुषा) तीक्ष्ण भयदर्शक अस्त्र द्वारा शत्रु से (प्राञ्चं यज्ञं रक्ष) प्राप्त सङ्गमनीय राष्ट्र की रक्षा कर (प्रचेतः-वसुभ्यः प्र नय) सावधान नायक प्रजाओं के लिये राष्ट्र को चला (रक्षांसि-अभि) दुष्टों पर आक्रमण कर (शोशुचानं हिंस्रं त्वा) देदीप्यमान हुए शत्रुनाशक को (यातुधानाः-मा दभन्) पीड़ा देनेवाले मत दबावें, ऐसा कर ॥९॥
भावार्थभाषाः - सेनानायक सब सैनिकों पर दृष्टि रखे, प्रजाजनों के सुखार्थ राष्ट्र की रक्षा करे, शत्रु से बचावे, शत्रुओं को हिंसित करे ॥९॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (नृचक्षः-अग्ने) हे नॄणां द्रष्टः अग्रणीः सेनानायक ! (तीक्ष्णेन चक्षुषा) तीक्ष्णेन भयदर्शकास्त्रेण शत्रुतः (प्राञ्चं यज्ञं रक्ष) सङ्गमनीयं प्राप्तं राष्ट्रं रक्ष (प्रचेतः वसुभ्यः प्र नय) हे सावधान नायक ! प्रजाभ्यः “प्रजा वै पशवो वसुः” [तै० सं० ५।२।४।२] राष्ट्रं प्रकृष्टं नय चालय (रक्षांसि-अभि) राक्षसान् दुष्टान् प्रति (शोशुचानं हिंस्रं त्वा) देदीप्यमानं नाशकारिणं त्वां (यातुधानाः-मा दभन्) यातनाधारका दुष्टा जना न हिंसेयुः तथा कुरु ॥९॥