वांछित मन्त्र चुनें

अयो॑दंष्ट्रो अ॒र्चिषा॑ यातु॒धाना॒नुप॑ स्पृश जातवेद॒: समि॑द्धः । आ जि॒ह्वया॒ मूर॑देवान्रभस्व क्र॒व्यादो॑ वृ॒क्त्व्यपि॑ धत्स्वा॒सन् ॥

अंग्रेज़ी लिप्यंतरण

ayodaṁṣṭro arciṣā yātudhānān upa spṛśa jātavedaḥ samiddhaḥ | ā jihvayā mūradevān rabhasva kravyādo vṛktvy api dhatsvāsan ||

पद पाठ

अयः॑ऽदंष्ट्रः । अ॒र्चिषा॑ । या॒तु॒ऽधाना॑न् । उप॑ । स्पृ॒श॒ । जा॒त॒ऽवे॒दः॒ । सम्ऽइ॑द्धः । आ । जि॒ह्वया॑ । मूर॑ऽदेवान् । र॒भ॒स्व॒ । क्र॒व्य॒ऽअदः॑ । वृ॒क्त्वी । अपि॑ । ध॒त्स्व॒ । आ॒सन् ॥ १०.८७.२

ऋग्वेद » मण्डल:10» सूक्त:87» मन्त्र:2 | अष्टक:8» अध्याय:4» वर्ग:5» मन्त्र:2 | मण्डल:10» अनुवाक:7» मन्त्र:2


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (जातवेदः) हे प्राप्त अवसर को जाननेवाले (अयोदंष्ट्रः) लोहे के दाड़ों के समान तीक्ष्ण शस्त्रवाले सेनानायक ! (अर्चिषा) तेज से (यातुधानान्) पीड़ाधारक-पीड़ा देनेवाले को (उप स्पृश) पकड़-स्वाधीन कर (जिह्वया) प्रबल वाणी-ललकार से (मूरदेवान्) मूढ़ मनवाले-भ्रान्त करके (आ रभस्व) दबा (क्रव्यादः-वृक्त्वी-आसन्) मांसभक्षकों को उनके कार्य से वर्जित करके पुनः अपने मुख में प्रमुख बन्धन में (अपि-आ धत्स्व) बन्धी बना ॥२॥
भावार्थभाषाः - सेनानायक अवसर को जाननेवाला तीक्ष्ण शस्त्रों से शत्रुओं को अपने अधीन करे तथा ललकारमात्र से उनको भ्रान्त करनेवाला हिंसक शत्रुओं को बन्धन में डालनेवाला होना चाहिये ॥२॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (जातवेदः) जातं प्राप्तमवसरं वेत्ति यः सः सम्बुद्धौ जातवेदः ! अवसरस्य वेत्तः ! सेनानायक ! (यो दंष्ट्रः) अयसो दंष्ट्रा दंशनः शस्त्रविशेषो यस्य स तथाभूतः “अयोदंष्ट्रान् अयोदंष्ट्रा येषु तान्” [ऋ० १।८८।५ दयानन्दः] (समिद्धः) प्रसिद्धः सन् (अर्चिषा) तेजसा ‘अर्चिः-तेजः’ [ऋ० ४।७।१ दयानन्दः] (यातुधानान्-उप-स्पृश) यातनाधारकान् दुष्टान् उपगृहाण स्वाधीनान् कुरु (जिह्वया) प्रबलवाचा “जिह्वा वाङ्नाम” [निघ० १।११] (मूरदेवान्) मूढो देवो येषां तथाभूतान् “मनो देवः” [गो० १।२।१०] भ्रान्तान् कृत्वा (आ रभस्व) आक्राम (क्रव्यादः-वृक्त्वी-आसन्-अपि-आधत्स्व) मांसभक्षकान् तत्कार्याद्वर्जयित्वा पुनः स्वकीये मुखे प्रमुखे बन्धने स्थाने विधेहि बन्धी कुरु ॥२॥