वांछित मन्त्र चुनें

र॒क्षो॒हणं॑ वा॒जिन॒मा जि॑घर्मि मि॒त्रं प्रथि॑ष्ठ॒मुप॑ यामि॒ शर्म॑ । शिशा॑नो अ॒ग्निः क्रतु॑भि॒: समि॑द्ध॒: स नो॒ दिवा॒ स रि॒षः पा॑तु॒ नक्त॑म् ॥

अंग्रेज़ी लिप्यंतरण

rakṣohaṇaṁ vājinam ā jigharmi mitram prathiṣṭham upa yāmi śarma | śiśāno agniḥ kratubhiḥ samiddhaḥ sa no divā sa riṣaḥ pātu naktam ||

पद पाठ

र॒क्षः॒ऽहन॑म् । वा॒जिन॑म् । आ । जि॒घ॒र्मि॒ । मि॒त्रम् । प्रथि॑ष्ठम् । उप॑ । या॒मि॒ । शर्म॑ । शिशा॑नः । अ॒ग्निः । क्रतु॑ऽभिः । सम्ऽइ॑द्धः । सः । नः॒ । दिवा॑ । सः । रि॒षः । पा॒तु॒ । नक्त॑म् ॥ १०.८७.१

ऋग्वेद » मण्डल:10» सूक्त:87» मन्त्र:1 | अष्टक:8» अध्याय:4» वर्ग:5» मन्त्र:1 | मण्डल:10» अनुवाक:7» मन्त्र:1


बार पढ़ा गया

ब्रह्ममुनि

इस सूक्त में राष्ट्रध्वंसक शत्रुओं तथा प्रजापीड़क जनों का विविध शस्त्र-अस्त्रों से नाश करना प्रधानता से वर्णन किया है।

पदार्थान्वयभाषाः - (रक्षोहणं वाजिनम्) जिससे रक्षा करनी चाहिये, उस राक्षस स्वभाववाले पापी शत्रु को जो मारता है, उस बलवान् (मित्रं प्रथिष्ठं जिघर्मि) अस्त्रप्रेरक अतिशक्तिप्रसारक आग्नेयास्त्रवाले को मैं राजा दीप्त करता हूँ, बोधित करता हूँ, चेताता हूँ (शर्म-उप यामि) ऐसा करके सुख को प्राप्त होता हूँ (सः) वह (शिशानः-अग्निः) वह तीक्ष्ण बलवाला अग्रणी सेनानायक (क्रतुभिः-समिद्धः) अनेक आग्नेयास्त्र प्रयोगों से संसिद्ध हुआ (नः) हमें (सः-रिषः-दिवानक्तं पातु) वह हिंसक शत्रु से दिन-रात रक्षा करे-सुरक्षित रखे ॥१॥
भावार्थभाषाः - राजा को सेनानायक ऐसा बनाना चाहिये, जो शत्रु को दबाने मारने में पूर्ण समर्थ आग्नेयास्त्र आदि चलानेवाला हो ॥१॥
बार पढ़ा गया

ब्रह्ममुनि

अत्र सूक्ते राष्ट्रध्वंसकानां शत्रूणां प्रजापीडकानां दुष्टानां च नाशनं विविधशस्त्रास्त्रैः कार्यमिति प्राधान्येन वर्ण्यते।

पदार्थान्वयभाषाः - (रक्षोहणं वाजिनं मित्रं प्रथिष्ठं जिघर्मि) रक्षितव्यमस्मादिति रक्षो राक्षसस्तं शत्रुं पापकारिणं हन्ति यस्तं बलवन्तम् “वाजो बलम्” [निघ० २।९] अस्त्रं प्रेरकम् “मिञ् प्रक्षेपणे” [स्वादि०] ततः क्तः [उणा० ४।१६४] अतिशक्तिप्रसारकमग्निं तेजस्विनमग्निमन्त-माग्नेयास्त्रमग्रणीं सेनानायकम् ‘मतुब्लोपश्छान्दसः’ अहं राजा दीपयामि प्रबोधयामि चेतयामि वा (शर्म-उपयामि) एवं कृत्वा सुखं प्राप्नोमि (सः शिशानः-अग्निः क्रतुभिः समिद्धः) सतीक्ष्णबलोऽग्रणीः सेनानायकोऽनेकैराग्नेयास्त्रप्रयोगैः संसिद्धः “समिद्धे प्रसिद्धे” [ऋ० ४।२५।१ दयानन्दः] (नः) अस्मान् (सः-रिषः-दिवा-नक्तं पातु) स हिंसकात्-शत्रोः दिने रात्रौ रक्षतु ॥१॥