वांछित मन्त्र चुनें

चित्ति॑रा उप॒बर्ह॑णं॒ चक्षु॑रा अ॒भ्यञ्ज॑नम् । द्यौर्भूमि॒: कोश॑ आसी॒द्यदया॑त्सू॒र्या पति॑म् ॥

अंग्रेज़ी लिप्यंतरण

cittir ā upabarhaṇaṁ cakṣur ā abhyañjanam | dyaur bhūmiḥ kośa āsīd yad ayāt sūryā patim ||

पद पाठ

चित्तिः॑ । आः॒ । उ॒प॒ऽबर्ह॑णम् । चक्षुः॑ । आः॒ । अ॒भि॒ऽअञ्ज॑नम् । द्यौः । भूमिः॑ । कोशः॑ । आ॒सी॒त् । यत् । अया॑त् । सू॒र्या । पति॑म् ॥ १०.८५.७

ऋग्वेद » मण्डल:10» सूक्त:85» मन्त्र:7 | अष्टक:8» अध्याय:3» वर्ग:21» मन्त्र:2 | मण्डल:10» अनुवाक:7» मन्त्र:7


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (सूर्या) सूर्यकान्तिसदृश योग्य नववधू (पतिम्-अयात्) पति-वर को प्राप्त होती है, (उपबर्हणं चित्तिः-आ) शिर का भूषण चेतानेवाली विद्या है (अभ्यञ्जनं चक्षुः-आः) नेत्र को सुन्दर बनानेवाला अञ्जन उसका यथार्थ दिखानेवाला स्नेहदर्शन है (कोशः-द्यौः-भूमिः आसीत्) कोश अर्थात् धनरक्षणस्थान के समान द्यावापृथिवीमय सब जगत् है, माता-पिता हैं ॥७॥
भावार्थभाषाः - सुयोग्य वधू वही कहलाती है, जिसकी विद्या ज्ञान ही मस्तक का भूषण है और उसका स्नेहदर्शन-स्नेहदृष्टि आँख का अञ्जन है, उसकी सम्पत्ति समस्त प्राणिजगत् या माता-पिता का आश्रय है, ऐसी वधू सुख शान्ति को प्राप्त करती है ॥७॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (सूर्या पतिम्-अयात्) सूर्यकान्तिसदृशी योग्या नववधूः पतिं वरं प्राप्नोति, तदा (उपबर्हणं चित्तिः-आ) शिरोभूषणं चित्तिश्चेतयित्री विद्या “चिती सञ्ज्ञाने” [भ्वादिः] अस्ति-भवति (अभ्यञ्जनं चक्षुः-आ) नेत्रस्याभिव्यक्तीकरणमञ्जनं तस्या यथार्थचक्षणं यथायोग्य-सम्मानस्नेहदर्शनमस्ति (कोशः-द्यौः-भूमिः-आसीत्) कोशो धनरक्षणस्थानमिव द्युलोकः पृथिवीलोकश्च द्यावापृथिवीमयं सर्वं जगदस्ति नह्येकदेशीयकोशोऽपेक्ष्यते सर्वं जगदेव तस्याः कोशः, यद्वा “द्यौर्मे, पिता……माता पृथिवी महीयम्” [ऋ० १।१६४।३३] मातापितरौ स्तः ॥७॥