वांछित मन्त्र चुनें

सम॑ञ्जन्तु॒ विश्वे॑ दे॒वाः समापो॒ हृद॑यानि नौ । सं मा॑त॒रिश्वा॒ सं धा॒ता समु॒ देष्ट्री॑ दधातु नौ ॥

अंग्रेज़ी लिप्यंतरण

sam añjantu viśve devāḥ sam āpo hṛdayāni nau | sam mātariśvā saṁ dhātā sam u deṣṭrī dadhātu nau ||

पद पाठ

सम् । अ॒ञ्ज॒न्तु॒ । विश्वे॑ । दे॒वाः । सम् । आपः॑ । हृद॑यानि । नौ॒ । सम् । मा॒त॒रिश्वा॑ । सम् । धा॒ता । सम् । ऊँ॒ इति॑ । देष्ट्री॑ । द॒धा॒तु॒ । नौ॒ ॥ १०.८५.४७

ऋग्वेद » मण्डल:10» सूक्त:85» मन्त्र:47 | अष्टक:8» अध्याय:3» वर्ग:28» मन्त्र:7 | मण्डल:10» अनुवाक:7» मन्त्र:47


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (विश्वे देवाः) सभी विद्वान् या प्राण (नौ हृदयानि) हम वर-वधू के मन-बुद्धि-चित्त-अहङ्कारों को (समञ्जन्तु) संयुक्त करें (आपः सम्) आप्तजन तथा आप्त व्याप्त शरीर के रस संयुक्त करें (मातरिश्वा सम्) माता के समान जीवनदाता परमात्मा या प्राणवायु संयुक्त करें (धाता देष्ट्री नौ-उ-सम्) हम दोनों का धारण करनेवाला अन्न, ज्ञान, वृद्धवंश्य संयुक्त करे ॥४७॥
भावार्थभाषाः - गृहस्थ में वर-वधू के पहुँच जाने पर विद्वान् जन तथा आप्त जीवन्मुक्त उनको परस्पर मेल में रहने के लिये उपदेश दें, परमात्मा भी उनके अन्दर मिलकर रहने की भावना उत्पन्न करे तथा उनके प्राण और शरीररस एक-दूसरे के अनुकूल हो जाएँ ॥४७॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (विश्वेदेवाः-नौ हृदयानि) सर्वे विद्वांसः प्राणा वा “प्राणा वै विश्वेदेवाः” [श० १४।२।२।२७] आवयोर्वधूवरयोर्हृदयानि-मनोबुद्धिचित्ताहङ्कारनामकान्तःकरणानि “हृदयम्-अन्तःकरणम्” [यजु० ११।३९ दयानन्दः] (समञ्जन्तु) सङ्गमयन्तु (आपः सम्) आप्ता जनाः “मनुष्या वा आपश्चन्द्राः” [श० ७।३।१।२०] आप्ता व्याप्ता शरीररसाः सङ्गमयन्तु (मातरिश्वा सम्) मातेव जीवनदाता परमात्मा प्राणवायुर्वा सङ्गमयन्तु (धाता देष्ट्री नौ-उ-सम्) आवयोर्भार्यापत्योर्धारयिता अन्नज्ञानजीवनदाता वृद्धो वंश्यः “देष्ट्रं दान यस्यास्ति स देष्ट्री” “अत इनिठनौ” [अष्टा० ५।२।११५] इति ‘इनि’ प्रत्ययो मतुबर्थीयः सङ्गमयतु ॥४७॥