वांछित मन्त्र चुनें

सोमं॑ मन्यते पपि॒वान्यत्स॑म्पिं॒षन्त्योष॑धिम् । सोमं॒ यं ब्र॒ह्माणो॑ वि॒दुर्न तस्या॑श्नाति॒ कश्च॒न ॥

अंग्रेज़ी लिप्यंतरण

somam manyate papivān yat sampiṁṣanty oṣadhim | somaṁ yam brahmāṇo vidur na tasyāśnāti kaś cana ||

पद पाठ

सोम॑म् । म॒न्य॒ते॒ । प॒पि॒ऽवान् । यत् । स॒म्ऽपिं॒षन्ति॑ । ओष॑धिम् । सोम॑म् । यम् । ब्र॒ह्माणः॑ । वि॒दुः । न । तस्य॑ । अ॒श्ना॒ति॒ । कः । च॒न ॥ १०.८५.३

ऋग्वेद » मण्डल:10» सूक्त:85» मन्त्र:3 | अष्टक:8» अध्याय:3» वर्ग:20» मन्त्र:3 | मण्डल:10» अनुवाक:7» मन्त्र:3


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (पपिवान्) पीनेवाला (सोमं मन्यते) उसे सोम समझता है (यत्) कि (ओषधिं सम्पिषन्ति) जिस ओषधि को सम्यक् पीसते हैं-उसका रस निकालते हैं (यं सोमम्) जिस सोम-चन्द्रमा को (ब्रह्माणः-विदुः) ज्योतिषी लोग जानते हैं (तस्य) उसको (कश्चन न अश्नाति) कोई भी नहीं खाता है, नहीं पीता है ॥३॥
भावार्थभाषाः - सोम एक ओषधि है, जो पृथिवी पर होती है, जिसे पीस कर पीते हैं। दूसरे सोम चन्द्रमा को कहते हैं,  ज्योतिषी-खगोलशास्त्री जानते हैं, जो आकाशीय सोम है, वह चन्द्रमा है, उसे कोई मनुष्य नहीं पी सकता ॥३॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (पपिवान् सोमं मन्यते) पानकर्ता सोमं तं मन्यते (यत् ओषधिं संपिंषन्ति) यतो ह्योषधिं सम्यक् पिष्ट्वा पिबन्ति (यं सोमं ब्रह्माणः-विदुः) यं सोमं चन्द्रमसं ब्रह्माणो ज्योतिर्विदो जानन्ति (तस्य कश्चन न अश्नाति) तं कोपि न भुङ्क्ते न पिबति “अथैषापरा भवति चन्द्रमसो वै तस्य वा” [नि० ११।४] ॥३॥