वांछित मन्त्र चुनें

न तं वि॑दाथ॒ य इ॒मा ज॒जाना॒न्यद्यु॒ष्माक॒मन्त॑रं बभूव । नी॒हा॒रेण॒ प्रावृ॑ता॒ जल्प्या॑ चासु॒तृप॑ उक्थ॒शास॑श्चरन्ति ॥

अंग्रेज़ी लिप्यंतरण

na taṁ vidātha ya imā jajānānyad yuṣmākam antaram babhūva | nīhāreṇa prāvṛtā jalpyā cāsutṛpa ukthaśāsaś caranti ||

पद पाठ

न । तम् । वि॒दा॒थ॒ । यः । इ॒मा । ज॒जान॑ । अ॒न्यत् । यु॒ष्माक॑म् । अन्त॑रम् । ब॒भू॒व॒ । नी॒हा॒रेण॑ । प्रावृ॑ताः । जल्प्या॑ । च॒ । अ॒सु॒ऽतृपः॑ । उ॒क्थ॒ऽशासः॑ । च॒र॒न्ति॒ ॥ १०.८२.७

ऋग्वेद » मण्डल:10» सूक्त:82» मन्त्र:7 | अष्टक:8» अध्याय:3» वर्ग:17» मन्त्र:7 | मण्डल:10» अनुवाक:6» मन्त्र:7


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (यः-इमा जजान) जो परमात्मा इन लोक-लोकान्तरों को उत्पन्न करता है (तं न विदाथ) उसको नहीं जानते हो (युष्माकम्) तुम्हारे अन्दर (अन्यत्-अन्तरम्) भिन्न भेदक छिद्र (बभूव) है (नीहारेण) अज्ञानान्धकार से (प्रावृताः) बहुत आच्छादित हो, तथा (जल्प्या च) इधर-उधर जल्पना से-इधर-उधर भाषण से वाक्संयमरहितता से (असुतृपः) प्राणपोषक-स्वार्थपरायण-विषयपरायण (उक्थशासः) कथनमात्र-प्रशंसक (चरन्ति) मनुष्य विचरण करते हैं, ऐसी प्रसिद्धि है ॥७॥
भावार्थभाषाः - जिस परमात्मा ने सब लोक-लोकान्तरों को रचा है, उसको नहीं जानते हैं-नहीं स्मरण करते हैं, इसलिए कि मनुष्य के अन्दर दोष हैं, अज्ञानान्धकार तथा वासना का कुहरा, अन्यथा जल्पना, असंयत वाणी से मिथ्यास्तुति प्रशंसा किया करते हैं ॥७॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (यः-इमा जजान) यः परमात्मा खल्विमानि लोकलोकान्तराणि जनयति (तं न विदाथ) तं यूयं न जानीथ (युष्माकम्-अन्यत्-अन्तरं बभूव) युष्माकमन्तरे भिन्नं छिद्रं भेदकं भवति (नीहारेण प्रावृताः) अज्ञानान्धकारेण प्रकृष्टमावृता आच्छादिताः, तथा (जल्प्या च-असुतृपः-उक्थशासः-चरन्ति) इतस्ततो भाषणेन वाक्संयम-राहित्येन प्राणपोषकाः स्वार्थपरायणाः विषयपरायणाः-कथनमात्रप्रशंसकाः खलु विचरन्ति मनुष्या इति प्रसिद्धिः ॥७॥