वांछित मन्त्र चुनें

यो न॑: पि॒ता ज॑नि॒ता यो वि॑धा॒ता धामा॑नि॒ वेद॒ भुव॑नानि॒ विश्वा॑ । यो दे॒वानां॑ नाम॒धा एक॑ ए॒व तं स॑म्प्र॒श्नं भुव॑ना यन्त्य॒न्या ॥

अंग्रेज़ी लिप्यंतरण

yo naḥ pitā janitā yo vidhātā dhāmāni veda bhuvanāni viśvā | yo devānāṁ nāmadhā eka eva taṁ sampraśnam bhuvanā yanty anyā ||

पद पाठ

यः । नः॒ । पि॒ता । ज॒नि॒ता । यः । वि॒ऽधा॒ता । धामा॑नि । वेद॑ । भुव॑नानि । विश्वा॑ । यः । दे॒वाना॑म् । ना॒म॒ऽधाः । एकः॑ । ए॒व । तम् । स॒म्ऽप्र॒श्नम् । भुव॑ना । य॒न्ति॒ । अ॒न्या ॥ १०.८२.३

ऋग्वेद » मण्डल:10» सूक्त:82» मन्त्र:3 | अष्टक:8» अध्याय:3» वर्ग:17» मन्त्र:3 | मण्डल:10» अनुवाक:6» मन्त्र:3


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (यः-नः-जनिता पिता) जो हमारा उत्पादक पालक परमात्मा (यः-विधाता) जो कर्मफल का विधान करनेवाला-देनेवाला (विश्वा धामानि) सारे जन्मों स्थानों (भुवनानि) लोक-लोकान्तरों को (वेद) जानता है (यः) जो (देवानां) अग्न्यादि दिव्यगुण पदार्थों का (नामधाः) नामधारक-नाम रखनेवाला है (तं सम्प्रश्नम्) उस सम्यक् प्रश्न करने योग्य-जानने योग्य परमात्मा को (अन्या भुवना यन्ति) अन्य लोक-लोकान्तर तथा जीव अपना आश्रय बनाते हैं ॥३॥
भावार्थभाषाः - परमात्मा संसार के पदार्थों को उत्पन्न करनेवाला, वेद में उनके नाम रखनेवाला, सब का जानने योग्य और आश्रयरूप है, उसको मानना और उसकी उपासना करनी चाहिए ॥३॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (यः-नः-जनिता पिता) योऽस्माकमुत्पादयिता पालकः परमात्मा (यः-विधाता) यः कर्मफलविधाता (विश्वा धामानि भुवनानि वेद) सर्वाणि जन्मानि स्थानानि लोकलोकान्तराणि जानाति (यः-देवानां नामधाः) योऽग्न्यादिदिव्यगुणवतां पदार्थानां नामानि दधाति (तं सम्प्रश्नम्-अन्या भुवना यन्ति) तं सम्यक् प्रष्टव्यं जिज्ञास्यं परमात्मदेवमन्यानि सर्वाणि भूतानि लोक-लोकान्तराणि च प्राप्नुवन्त्याश्रयन्ति ॥३॥