वांछित मन्त्र चुनें

किं स्वि॒द्वनं॒ क उ॒ स वृ॒क्ष आ॑स॒ यतो॒ द्यावा॑पृथि॒वी नि॑ष्टत॒क्षुः । मनी॑षिणो॒ मन॑सा पृ॒च्छतेदु॒ तद्यद॒ध्यति॑ष्ठ॒द्भुव॑नानि धा॒रय॑न् ॥

अंग्रेज़ी लिप्यंतरण

kiṁ svid vanaṁ ka u sa vṛkṣa āsa yato dyāvāpṛthivī niṣṭatakṣuḥ | manīṣiṇo manasā pṛcchated u tad yad adhyatiṣṭhad bhuvanāni dhārayan ||

पद पाठ

किम् । स्वि॒त् । वन॑म् । कः । ऊँ॒ इति॑ । सः । वृ॒क्षः । आ॒स॒ । यतः॑ । द्यावा॑पृथि॒वी इति॑ । निः॒ऽत॒त॒क्षुः । मनी॑षिणः । मन॑सा । पृ॒च्छत॑ । इत् । ऊँ॒ इति॑ । तत् । यत् । अ॒धि॒ऽअति॑ष्ठत् । भुव॑नानि । धा॒रय॑न् ॥ १०.८१.४

ऋग्वेद » मण्डल:10» सूक्त:81» मन्त्र:4 | अष्टक:8» अध्याय:3» वर्ग:16» मन्त्र:4 | मण्डल:10» अनुवाक:6» मन्त्र:4


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (किं स्वित्) कौन ही (वनम्) वन है (कः-उ) और कौन ही (सः-वृक्षः) वह वृक्ष (आस) है (यतः) जिससे (द्यावापृथिवी) द्युलोक पृथिवीलोक-द्यावापृथिवीमय जगत् को (निस्-ततक्षुः) नियम से तक्षक-बढ़ई की भाँति परमात्मा गढ़ता है-करता है (मनीषिण:) हे प्रज्ञावाले-बुद्धिमान् विद्वानों ! तुम (मनसा पृच्छत) मन से पूछो-विचारो (इत्-उ) अवश्य ही (तत्-यत्) वह जो (भुवनानि धारयन्) लोक-लोकान्तरों को धारण करता हुआ (अध्यतिष्ठत्) उनके ऊपर अधिष्ठित है ॥४॥
भावार्थभाषाः - तक्षक-बढ़ई का अलङ्कार या रूपक देकर विचार किया गया है। इस द्यावपृथिवीमय जगत् का उपादानकारण कौन है और इसमें वर्तमान लोक-लोकान्तरों का धारण करनेवाला कर्त्ता निमित्तकारण कौन है, यह विचारना चाहिए ॥४॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (किं स्वित्-वनं कः-उ सः-वृक्षः-आस) किं हि तद्वनं कश्च हि स वृक्षोऽस्ति (यतः) यस्मात् (द्यावापृथिवी निष्टतक्षुः) द्यावापृथिवीमयं जगत् खलु नियमेन तक्षक इव करोति परमात्मा “ततक्षुः-चक्रुः” [निरु० ६।२७] “व्यत्ययेन बहुवचनम्” (मनीषिणः-मनसा पृच्छत-इत्-उ) हे प्रज्ञावन्तो विद्वान्सः ! यूयं मनसा पृच्छत-विचारयत ह्येव (तत्-यत्-भुवनानि धारयन्-अध्यतिष्ठत्) तदपि विचारयत यत् पुनर्लोकलोकान्तराणि धारयन् तदुपरि खल्वधितिष्ठति ॥४॥