य इ॒मा विश्वा॒ भुव॑नानि॒ जुह्व॒दृषि॒र्होता॒ न्यसी॑दत्पि॒ता न॑: । स आ॒शिषा॒ द्रवि॑णमि॒च्छमा॑नः प्रथम॒च्छदव॑राँ॒ आ वि॑वेश ॥
ya imā viśvā bhuvanāni juhvad ṛṣir hotā ny asīdat pitā naḥ | sa āśiṣā draviṇam icchamānaḥ prathamacchad avarām̐ ā viveśa ||
यः । इ॒मा । विश्वा॑ । भुव॑नानि । जुह्व॑त् । ऋषिः॑ । होता॑ । नि । असी॑दत् । पि॒ता । नः॒ । सः । आ॒ऽशिषा॑ । द्रवि॑णम् । इ॒च्छमा॑नः । प्र॒थ॒म॒ऽच्छत् । अव॑रान् । आ । वि॒वे॒श॒ ॥ १०.८१.१
ब्रह्ममुनि
इस सूक्त में परमात्मा प्रलय में सबको अपने में लीन कर लेता है, जीव मूर्च्छित हो जाते हैं, जीवन्मुक्त उसकी प्रेरणा से मोक्षानन्द भोगते हैं, संसार का मूल प्रकृति है इत्यादि विषय वर्णित हैं ।
ब्रह्ममुनि
अत्र सूक्ते परमात्मा प्रलयकाले सर्वान् पदार्थान् स्वस्मिन् लीनीकरोति जीवाश्च तत्र मूर्च्छिता भवन्ति जीवन्मुक्तास्तु तत्प्रेरणया मोक्षानन्दं भुञ्जते मूलात् प्रकृतिरूपात् संसारमुत्पादयतीत्येवमादयो विषया वर्ण्यन्ते।