वांछित मन्त्र चुनें

स पित्र्या॒ण्यायु॑धानि वि॒द्वानिन्द्रे॑षित आ॒प्त्यो अ॒भ्य॑युध्यत् । त्रि॒शी॒र्षाणं॑ स॒प्तर॑श्मिं जघ॒न्वान्त्वा॒ष्ट्रस्य॑ चि॒न्निः स॑सृजे त्रि॒तो गाः ॥

अंग्रेज़ी लिप्यंतरण

sa pitryāṇy āyudhāni vidvān indreṣita āptyo abhy ayudhyat | triśīrṣāṇaṁ saptaraśmiṁ jaghanvān tvāṣṭrasya cin niḥ sasṛje trito gāḥ ||

पद पाठ

सः । पित्र्या॑णि । आयु॑धानि । वि॒द्वान् । इन्द्र॑ऽइषितः । आ॒प्त्यः । अ॒भि । अ॒यु॒ध्य॒त् । त्रि॒ऽशी॒र्षाण॑म् । स॒प्तऽर॑श्मिम् । ज॒घ॒न्वान् । त्वा॒ष्ट्रस्य॑ । चि॒त् । निः । स॒सृ॒जे॒ । त्रि॒तः । गाः ॥ १०.८.८

ऋग्वेद » मण्डल:10» सूक्त:8» मन्त्र:8 | अष्टक:7» अध्याय:6» वर्ग:4» मन्त्र:3 | मण्डल:10» अनुवाक:1» मन्त्र:8


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (सः-आप्त्यः) वह सर्वज्ञानगुणप्राप्त व्याप्त परमात्मा में स्थित या वर्तमान आत्मा (पित्र्याणि-आयुधानि-विद्वान्) पिता परमात्मा की सङ्गति से प्राप्त अध्यात्मबलरूप शस्त्रों को प्राप्त हुआ (इन्द्रेषितः-अभि-अयुध्यत्) ऐश्वर्यवान् परमात्मा द्वारा प्रेरित-प्रकर्ष को प्राप्त हुआ युद्ध करता है- संघर्ष करता है (त्रिशीर्षाणं सप्तरश्मिं जघन्वान्) तीन शिरोंवाले शरीर के समान स्थूलसूक्ष्मकारण शिरोंवाले शरीर तथा सात रश्मियों-प्रग्रहों-लगामों को अपने-अपने विषयों में लगामों के समान खींचनेवाले ज्ञानेन्द्रियों मन और उपस्थेन्द्रियवाले शरीररूप विरोधी को परास्त करता है-त्यागता है (त्रितः-त्वाष्ट्रस्य गाः-चित्--ससृजे) आत्मा शरीरबीजभाव से उत्पन्न पुनर्जन्म में ले जानेवाली इन्द्रियवासनालगामों को निकाल फेंकता है ॥८॥
भावार्थभाषाः - योग द्वारा परमात्मा से आत्मा को अध्यात्मबल प्राप्त होता है, तो स्थूलसूक्ष्मकारणशरीरोंवाले और सात लगामों-पाँच ज्ञानेन्द्रियाँ मन तथा उपस्थेन्द्रियवाले शरीर को वह पराजित करता है। शरीर के कारणरूप गर्भधारण करानेवाले गर्भबीजप्रभाव की वासनाओं को भी निकाल फेंकता है ॥८॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (सः-आप्त्यः) स खलु सर्वज्ञानगुणप्राप्ते व्याप्ते परमात्मनि स्थित आत्मा (पित्र्याणि-आयुधानि-विद्वान्) पितुः परमात्मनः सङ्गेन प्राप्तव्यानि खल्वध्यात्मबलानि लब्धवान् सन् (इन्द्रेषितः-अभि-अयुध्यत्) तेन परमात्मना प्रेरितः-प्रकर्षं प्राप्तः सन् युद्धं कृतवान्-करोति (त्रिशीर्षाणं सप्तरश्मिं जघन्वान्) स्थूलसूक्ष्मकारणात्मकं शिरोवद्-यस्य तत्-शरीरं सप्तरश्मिं सप्तप्रग्रहाः प्रगहवज्ज्ञानेन्द्रियाणि मनस्तथोपस्थेन्द्रियं च यस्मिन् तथाभूतं शरीरत्रयं हतवान्-हन्ति-त्यजति (त्रितः-त्वाष्ट्रस्य गाः-चित्-निः-ससृजे) स आत्मा अस्य शरीरस्य त्वष्टुः पुत्रस्य रेतस उत्पन्नस्य “त्वष्टा रेतो भुवनस्य” [मै० ४।१४।९] गाः-रश्मीन् प्रग्रहान्  “गावः रश्मिनाम” [निघ० १।४] स्वविषयेष्वाकर्षकेन्द्रियरूपान् प्रग्रहान् पुनर्जन्मनि गमयितॄन् निःसारयति बहिष्करोति ॥८॥