वांछित मन्त्र चुनें

अ॒स्य त्रि॒तः क्रतु॑ना व॒व्रे अ॒न्तरि॒च्छन्धी॒तिं पि॒तुरेवै॒: पर॑स्य । स॒च॒स्यमा॑नः पि॒त्रोरु॒पस्थे॑ जा॒मि ब्रु॑वा॒ण आयु॑धानि वेति ॥

अंग्रेज़ी लिप्यंतरण

asya tritaḥ kratunā vavre antar icchan dhītim pitur evaiḥ parasya | sacasyamānaḥ pitror upasthe jāmi bruvāṇa āyudhāni veti ||

पद पाठ

अ॒स्य । त्रि॒तः । क्रतु॑ना । व॒व्रे । अ॒न्तः । इ॒च्छन् । धी॒तिम् । पि॒तुः । एवैः॑ । पर॑स्य । स॒च॒स्यमा॑नः । पि॒त्रोः । उ॒पऽस्थे॑ । जा॒मि । ब्रु॒वा॒णः । आयु॑धानि । वे॒ति॒ ॥ १०.८.७

ऋग्वेद » मण्डल:10» सूक्त:8» मन्त्र:7 | अष्टक:7» अध्याय:6» वर्ग:4» मन्त्र:2 | मण्डल:10» अनुवाक:1» मन्त्र:7


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (अस्य परस्य पितुः) इस उत्कृष्ट पिता पालक परमात्मा की (धीतिम्-इच्छन्-त्रितः) आधारण-उपासना को चाहते हुए-चाहने प्राप्त करने हेतु तीन-स्थूलसूक्ष्मकारण-शरीरों में प्रवेश करनेवाला आत्मा (क्रतुना-अन्तः-वव्रे) अध्यात्मकर्म योगाभ्यास से अपने अन्दर वरता है (पित्रोः-उपस्थे सचस्यमानः जामि ब्रुवाणः) जैसे माता-पिता के आश्रय में सङ्गति को प्राप्त हुआ बालक अपने को पुत्र कहता हुआ और सुरक्षित रहता हुआ (आयुधानि वेति) अध्यात्मबलरूप शस्त्रों को प्राप्त करता है ॥७॥
भावार्थभाषाः - परमपिता परमात्मा के आश्रयरूप उपासना के हेतु तीन शरीरों में जानेवाले आत्मा को योगाभ्यास करना चाहिये। बन्धन को काटनेवाले अध्यात्मबलरूप शस्त्र ही हैं। जैसे माता-पिता के आश्रय में बालक सुरक्षित रहता है, ऐसे ही आत्मा परमात्मा के आश्रय में बन्धनरहित निर्भय और सुरक्षित हो जाता है ॥७॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (अस्य परस्य पितुः) एतस्योत्कृष्टस्य पालकस्य पितृभूतस्य परमात्मनः (धीतिम्-इच्छन्-त्रितः) आधारणाम् आश्रयभूतामुपासनाम् “धीङ्-आधारे” [दिवादिः] ततः क्तिन् “धीतिः-धारणा” [ऋ० १।११९।२ दयानन्दः] इच्छन्-वाञ्छन् त्रितः-त्रिस्थानः-त्रिषु स्थानेषु स्थूलसूक्ष्मकारणशरीरेषूत्पत्स्यमानः आत्मा (क्रतुना-अन्तः-वव्रे) अध्यात्मकर्मणा योगाभ्यासेन स्वाभ्यन्तरे वृणोति, यथा (पित्रोः-उपस्थे) मातापित्रोराश्रये (सचस्यमानः) समवैष्यन्-सङ्गच्छमानः (जामि ब्रुवाणः) पुत्र इव जामित्वं पुत्रत्वं कथयन् रक्ष्यमाणः (आयुधानि वेति) अध्यात्मबलरूपाणि शस्त्राणि प्राप्नोति ॥७॥