वांछित मन्त्र चुनें

वाता॑सो॒ न ये धुन॑यो जिग॒त्नवो॑ऽग्नी॒नां न जि॒ह्वा वि॑रो॒किण॑: । वर्म॑ण्वन्तो॒ न यो॒धाः शिमी॑वन्तः पितॄ॒णां न शंसा॑: सुरा॒तय॑: ॥

अंग्रेज़ी लिप्यंतरण

vātāso na ye dhunayo jigatnavo gnīnāṁ na jihvā virokiṇaḥ | varmaṇvanto na yodhāḥ śimīvantaḥ pitṝṇāṁ na śaṁsāḥ surātayaḥ ||

पद पाठ

वाता॑सः । न । ये । धुन॑यः । जि॒ग॒त्नवः॑ । अ॒ग्नी॒नाम् । न । जि॒ह्वाः । वि॒ऽरो॒किणः॑ । वर्म॑ण्ऽवन्तः॑ । न । यो॒धाः । शिमी॑ऽवन्तः । पि॒तॄ॒णाम् । न । शंसाः॑ । सु॒ऽरा॒तयः॑ ॥ १०.७८.३

ऋग्वेद » मण्डल:10» सूक्त:78» मन्त्र:3 | अष्टक:8» अध्याय:3» वर्ग:12» मन्त्र:3 | मण्डल:10» अनुवाक:6» मन्त्र:3


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (वातासः-न ये) प्रबल वायु के समान जो जीवन्मुक्त विद्वान् हैं (धुनयः-जिगत्नवः) पापियों के कँपानेवाले तथा अग्रगन्ता जन (अग्नीनां जिह्वाः) अग्नियों की ज्वालाओं के समान (विरोकिणः) विशेष तेजस्वी (वर्मण्वन्तः-न योधाः) कवचवाले योद्धाओं के समान कर्मठ हैं, पापियों के विजय करने में (पितॄणां न शंसाः) वृद्धों के मध्य में प्रशंसनीय जैसे (सुरातयः) ज्ञानदाता हैं, वे सङ्गति करने योग्य हैं ॥३॥
भावार्थभाषाः - जो महानुभाव जीवन देनेवाले, पापों को दूर करनेवाले, आगे बढ़ानेवाले तेजस्वी कर्मठ प्रशंसनीय तथा ज्ञान के देनेवाले हैं, उनकी सङ्गति करनी चाहिए ॥३॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (वातासः-न ये धुनयः-जिगत्नवः) प्रबलवायव इव ये मरुतो जीवन्मुक्ता विद्वांसः पापानां कम्पयितारोऽग्रे गन्तारः (अग्नीनां जिह्वाः-विरोकिणः) ये चाग्नीनां ज्वाला इव तेजस्विनः (वर्मण्वन्तः-न योधाः) कवचिनो योद्धार इव कर्मठाः सन्ति पापविजये (पितॄणां न शंसाः सुरातयः) वृद्धानां मध्ये प्रशंसनीया ज्ञानदातारः सन्ति, ते सङ्गमनीयाः ॥३॥