वांछित मन्त्र चुनें

विप्रा॑सो॒ न मन्म॑भिः स्वा॒ध्यो॑ देवा॒व्यो॒३॒॑ न य॒ज्ञैः स्वप्न॑सः । राजा॑नो॒ न चि॒त्राः सु॑सं॒दृश॑: क्षिती॒नां न मर्या॑ अरे॒पस॑: ॥

अंग्रेज़ी लिप्यंतरण

viprāso na manmabhiḥ svādhyo devāvyo na yajñaiḥ svapnasaḥ | rājāno na citrāḥ susaṁdṛśaḥ kṣitīnāṁ na maryā arepasaḥ ||

पद पाठ

विप्रा॑सः । न । मन्म॑ऽभिः । सु॒ऽआ॒ध्यः॑ । दे॒व॒ऽअ॒व्यः॑ । न । य॒ज्ञैः । सु॒ऽअप्न॑सः । राजा॑नः । न । चि॒त्राः । सु॒ऽस॒न्दृशः॑ । क्षि॒ती॒नाम् । न । मर्याः॑ । अ॒रे॒पसः॑ ॥ १०.७८.१

ऋग्वेद » मण्डल:10» सूक्त:78» मन्त्र:1 | अष्टक:8» अध्याय:3» वर्ग:12» मन्त्र:1 | मण्डल:10» अनुवाक:6» मन्त्र:1


बार पढ़ा गया

ब्रह्ममुनि

इस सूक्त में जो जीवन्मुक्त सर्वत्र विचरकर मनुष्य को पाप से बचाते, ज्ञान का उपदेश करते हैं, उनकी सङ्गति तथा सत्कार करना चाहिए आदि विषय हैं।

पदार्थान्वयभाषाः - (मन्मभिः) हे जीवन्मुक्त विद्वानों ! तुम मननीय मन्त्रों द्वारा (स्वाध्यः) सुख सम्पत्तिवाले (विप्रासः-न) विशेष कामना पूरी करनेवाले जैसे (यज्ञैः) ज्ञानयज्ञों के द्वारा (स्वप्नसः) सुन्दर कर्मवाले (देवाव्यः-न) परमात्मदेव की उपासना करनेवाले जैसे (सुसंदृशः) सुख के सम्यक् दिखानेवाले-सुख का अनुभव करानेवाले (चित्राः) चायनीय-पूजनीय (राजानः-न) राजाओं के सामान (क्षितीनाम्) मनुष्यों के मध्य (अरेपसः) निष्पाप (मर्याः-न) मनुष्यों के समान हमारे लिए होवो ॥१॥
भावार्थभाषाः - जीवन्मुक्त विद्वान् अपने ज्ञानों से लोगों की कामनाओं को पूरा करनेवाले तथा उत्तम कर्मों के द्वारा सुख का अनुभव करानेवाले मनुष्यों के अन्दर विचरण करते रहें ॥१॥
बार पढ़ा गया

ब्रह्ममुनि

अत्र सूक्ते ये जीवन्मुक्ताः सर्वत्र विचरणं कृत्वा जनान् पापान्निवारयन्ति ज्ञानोपदेशं कुर्वन्ति तेषां सङ्गतिसत्कारौ कार्यावित्येवमादयो विषयाः सन्ति।

पदार्थान्वयभाषाः - (मन्मभिः-स्वाध्यः-विप्रासः-न) हे मरुतः जीवन्मुक्ता जनाः ! यूयं मननीयैर्मन्त्रैः सुखसम्पत्तिमन्तो विशिष्टकामनापूरका इव (यज्ञैः-स्वप्नसः-देवाव्यः-न) यज्ञैः शोभनकर्माणः “अप्नः कर्मनाम” [निघ० २।१] परमात्मदेवोपासका इव (सुसन्दृशः-चित्राः-राजानः-न) सुखस्य सन्दर्शयितारः सुखस्यानुभावयितारः चायनीयाः पूज्या राजान इव (क्षितीनाम् अरेपसः-मर्याः-न) मनुष्याणां मध्ये निष्पापाः मनुष्या इवास्मभ्यं भवत ॥१॥