वांछित मन्त्र चुनें

य उ॒दृचि॑ य॒ज्ञे अ॑ध्वरे॒ष्ठा म॒रुद्भ्यो॒ न मानु॑षो॒ ददा॑शत् । रे॒वत्स वयो॑ दधते सु॒वीरं॒ स दे॒वाना॒मपि॑ गोपी॒थे अ॑स्तु ॥

अंग्रेज़ी लिप्यंतरण

ya udṛci yajñe adhvareṣṭhā marudbhyo na mānuṣo dadāśat | revat sa vayo dadhate suvīraṁ sa devānām api gopīthe astu ||

पद पाठ

यः । उ॒त्ऽऋचि॑ । य॒ज्ञे । अ॒ध्व॒रे॒ऽस्थाः । म॒रुत्ऽभ्यः॑ । न । मानु॑षः । ददा॑शत् । रे॒वत् । सः । वयः॑ । द॒ध॒ते॒ । सु॒ऽवीर॑म् । सः । दे॒वाना॑म् । अपि॑ । गो॒ऽपी॒थे । अ॒स्तु॒ ॥ १०.७७.७

ऋग्वेद » मण्डल:10» सूक्त:77» मन्त्र:7 | अष्टक:8» अध्याय:3» वर्ग:11» मन्त्र:2 | मण्डल:10» अनुवाक:6» मन्त्र:7


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (यः) जो (अध्वरेष्ठाः) अध्यात्म मार्गवाले योग में स्थित (मानुषः) मनुष्य तथा (उदृचि) उत्कृष्ट स्तुतिवाले ज्ञानयज्ञ के निमित्त (मरुद्भ्यः) जीवन्मुक्तों के लिए (न) सम्प्रति (ददाशत्) अपने आत्मा को दे देता है, समर्पित करता है, (सः) वह (सुवीरम्) शोभन प्राणों से युक्त (रेवत्) मोक्षैश्वर्यवाले (वयः) जीवन को (दधते) धारण करता है, तथा (सः) वह (गोपीथे) सोमपान-शान्त परमानन्दरसपान के निमित्त (देवानाम्-अस्तु) जीवन्मुक्तों के मध्य में-उनकी श्रेणी में हो जाता है ॥७॥
भावार्थभाषाः - अध्यात्ममार्गवाले योगाभ्यास तथा परमात्मा की स्तुति के निमित्त मनुष्य जीवन्मुक्त विद्वानों की संगति से मोक्षानन्द पान करने का अधिकारी उत्कृष्ट जीवनवाला बन जाता है ॥७॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (यः-अध्वरेष्ठाः-मानुषः) योऽध्यात्ममार्गवति योगसमाधौ स्थितो जनः (उदृचि) उत्कृष्टस्तुतिमति यज्ञे-ज्ञानयज्ञे (न ददाशत्) सम्प्रति स्वात्मानं ददाति (मरुद्भ्यः-सुवीरम्-रेवत्-वयः-दधते) स शोभनप्राणयुक्तं मोक्षैश्वर्य्यवज्जीवनं धारयति “दध धारणे” [भ्वादि] तथा (सः-गोपीथे-देवानाम्-अस्तु) स खलु सोमपाने “गोपीथाय सोमपानाय” [निरु० १०।३६] शान्तपरमानन्दरस-पाने जीवन्मुक्तानां मध्ये भवतु ॥७॥