वांछित मन्त्र चुनें

दि॒वि स्व॒नो य॑तते॒ भूम्यो॒पर्य॑न॒न्तं शुष्म॒मुदि॑यर्ति भा॒नुना॑ । अ॒भ्रादि॑व॒ प्र स्त॑नयन्ति वृ॒ष्टय॒: सिन्धु॒र्यदेति॑ वृष॒भो न रोरु॑वत् ॥

अंग्रेज़ी लिप्यंतरण

divi svano yatate bhūmyopary anantaṁ śuṣmam ud iyarti bhānunā | abhrād iva pra stanayanti vṛṣṭayaḥ sindhur yad eti vṛṣabho na roruvat ||

पद पाठ

दि॒वि । स्व॒नः । य॒त॒ते॒ । भूम्या॑ । उ॒परि॑ । अ॒न॒न्तम् । शुष्म॑म् । उत् । इ॒य॒र्ति॒ । भा॒नुना॑ । अ॒भ्रात्ऽइ॑व । प्र । स्त॒न॒य॒न्ति॒ । वृ॒ष्टयः॑ । सिन्धुः॑ । यत् । एति॑ । वृ॒ष॒भः । न । रोरु॑वत् ॥ १०.७५.३

ऋग्वेद » मण्डल:10» सूक्त:75» मन्त्र:3 | अष्टक:8» अध्याय:3» वर्ग:6» मन्त्र:3 | मण्डल:10» अनुवाक:6» मन्त्र:3


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (भानुना) अन्तरिक्षस्थ जलसमूह जब विद्युत् के द्वारा (शुष्मम्) बल को-वेग को (उदियर्ति) प्रेरित करता है (दिविः स्वनः-यतते) तब आकाश में इसका शब्द प्राप्त होता है (भूम्या-उपरि) भूमि के ऊपर (अनन्तम्) दूर तक जाता है (अभ्रात्-इव) मेघ से (वृष्टयः स्तनयन्ति) वृष्टियाँ-वर्षाएँ शब्द करती हैं (वृषभः-न) वृषभ की भाँति (रोरुवत्) शब्द करता हुआ (सिन्धुः-यत्-एति) स्यन्दनशील अन्तिरक्षस्थ जलसमूह नीचे आ जाता है ॥३॥
भावार्थभाषाः - विद्युत् से ताड़ित मेघ का जल शब्द करता हुआ भूमि पर आता है और निम्न स्थान पर दूर तक पहुँचता है, उससे कृषि आदि का लाभ लेना चाहिए ॥३॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (भानुना शुष्मम्-उदियर्ति) सिन्धुः-अन्तरिक्षस्थजलसमूहो यदा अर्चिषा विद्युता “अजस्रेण भानुना-अजस्रेणार्चिषा” [श० ६।४।१।२] बलं वेगं प्रेरयति (दिवि स्वनः-यतते) तदाऽस्य शब्दः-आकाशे गच्छति “यतते गतिकर्मा” [निघ० २।१४] (भूम्या-उपरि-अनन्तम्) भूम्याः उपरि-अनन्तं दूरपर्यन्तं गच्छतीत्यर्थः “भूम्या” षष्ठ्यर्थे तृतीया व्यत्ययेन (अभ्रात्-इव वृष्टयः स्तनयन्ति) मेघात् ‘इवोऽपि दृश्यते पदपूरणः” [निरु० १।११] खलु वृष्टयः शब्दयन्ति (वृषभः-न-रोरुवत् सिन्धुः-यत्-एति) वृषभ इव भृशं शब्दं कुर्वन् यदा स्यन्दनशीलोऽन्तरिक्षस्थो जलसमूहो नीचैरागच्छति ॥३॥