वांछित मन्त्र चुनें

यद्वा॒वान॑ पुरु॒तमं॑ पुरा॒षाळा वृ॑त्र॒हेन्द्रो॒ नामा॑न्यप्राः । अचे॑ति प्रा॒सह॒स्पति॒स्तुवि॑ष्मा॒न्यदी॑मु॒श्मसि॒ कर्त॑वे॒ कर॒त्तत् ॥

अंग्रेज़ी लिप्यंतरण

yad vāvāna purutamam purāṣāḻ ā vṛtrahendro nāmāny aprāḥ | aceti prāsahas patis tuviṣmān yad īm uśmasi kartave karat tat ||

पद पाठ

यत् । व॒वान॑ । पु॒रु॒ऽतम॑म् । पु॒रा॒षाट् । आ । वृ॒त्र॒ऽहा । इन्द्रः॑ । नामा॑नि । अ॒प्राः॒ । अचे॑ति । प्र॒ऽसहः॑ । पतिः॑ । तुवि॑ष्मान् । यत् । ई॒म् । उ॒श्मसि॑ । कर्त॑वे । कर॑त् । तत् ॥ १०.७४.६

ऋग्वेद » मण्डल:10» सूक्त:74» मन्त्र:6 | अष्टक:8» अध्याय:3» वर्ग:5» मन्त्र:6 | मण्डल:10» अनुवाक:6» मन्त्र:6


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (यत्) जिससे (पुरुतमं ववान) बहुत प्रसिद्ध बलवान् शत्रु को हिंसित करता है (पुराषाट्) शत्रु के पुरों-नगरों को-मण्डलियों को भी स्वाधीन करता है (वृत्रहा) आक्रमणकारियों का नाशक (इन्द्रः) राजा (नामानि-अप्राः) जो जलों के समान शत्रु के सैन्यबलों को संग्रामभूमि में फैला देता है (अचेति) ऐसा प्रसिद्ध है (प्रसहः-पतिः) प्रकृष्टबल का स्वामी (तुविष्मान्) स्वयं बहुत बलवान् (यत्-ईम् कर्तवे-उश्मसि) जो हम करना चाहते हैं, (तत् करत्) उसे वह करता है ॥६॥
भावार्थभाषाः - राजा स्वयं बहुत बलवान् और सैन्यबलों का स्वामी शत्रु के बलों का संहार करनेवाला उनके नगरों पर अधिकार करनेवाला होना चाहिए ॥६॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (यत्) यतः (पुरुतमं ववान) बहुप्रसिद्धतमं बलवन्तं शत्रुं वनति हिनस्ति “वनुष्यति हन्तिकर्मा” [निरु० ५।२] (पुरुषाट्) शत्रुपुराणामभिभविता (वृत्रहा) आवरकाणामाक्रमकारिणां हन्ता (इन्द्रः) राजा (नामानि-अप्राः) यो जलानीव शत्रुसैन्यानि सङ्ग्रामभूमौ पूरयति प्रसारयति (अचेति) इति प्रसिद्ध्यति (प्रसहः-पतिः) प्रकृष्टबलस्य स्वामी (तुविष्मान्) स्वयं बहुबलवान् “तुविष्मान् बहुबलाकर्षणयुक्तः” [ऋ० २।१२।१२ दयानन्दः] (यत्-ईम् कर्त्तवे-उश्मसि) यदेव वयं कर्त्तुं कामयामहे (तत् करत्) तत् करोति सः ॥६॥