वांछित मन्त्र चुनें

शची॑व॒ इन्द्र॒मव॑से कृणुध्व॒मना॑नतं द॒मय॑न्तं पृत॒न्यून् । ऋ॒भु॒क्षणं॑ म॒घवा॑नं सुवृ॒क्तिं भर्ता॒ यो वज्रं॒ नर्यं॑ पुरु॒क्षुः ॥

अंग्रेज़ी लिप्यंतरण

śacīva indram avase kṛṇudhvam anānataṁ damayantam pṛtanyūn | ṛbhukṣaṇam maghavānaṁ suvṛktim bhartā yo vajraṁ naryam purukṣuḥ ||

पद पाठ

शची॑ऽवः । इन्द्र॑म् । अव॑से । कृ॒णु॒ध्व॒म् । अना॑नतम् । द॒मय॑न्तम् । पृ॒त॒न्यून् । ऋ॒भु॒क्षण॑म् । म॒घऽवा॑नम् । सु॒ऽवृ॒क्तिम् । भर्ता॑ । यः । वज्र॑म् । नर्य॑म् । पु॒रु॒ऽक्षुः ॥ १०.७४.५

ऋग्वेद » मण्डल:10» सूक्त:74» मन्त्र:5 | अष्टक:8» अध्याय:3» वर्ग:5» मन्त्र:5 | मण्डल:10» अनुवाक:6» मन्त्र:5


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (शचीवः) हे कर्मवाले-कर्मकर्त्ता जनों ! (अवसे) रक्षा के लिये (पृतन्यून् दमयन्तम्) संग्राम करने के इच्छुक शत्रुओं को अपने वश में लेनेवाले (अनानतम्) जो किसी से भी वश न किया जा सके, उस महान् शक्तिमान् को (ऋभुक्षणम्) ऋभुओं मेधावी शिल्पियों के बसानेवाले (मघवानम्) धनवाले (सुवृक्तिम्) भली प्रकार दुःख से वर्जित करनेवाले हटानेवाले (इन्द्रं कृणुध्वम्) अपना राजा बनाओ (यः पुरुक्षुः) जो बहुत भोजनीय अन्नवाला (नर्यं वज्रं भर्त्ता) प्रजाजनों के लिये हितकर ओज का धारण करनेवाला है ॥५॥
भावार्थभाषाः - कर्मकर्त्ता राष्ट्र के कर्मठ जन संग्राम के इच्छुक शत्रुओं के दमन करनेवाले अन्य के वश में न आनेवाले विद्वानों और शिल्पियों को राष्ट्र में बसानेवाले प्रजाजनों के लिये अन्नादि की व्यवस्था करनेवाले को राजा बनाना चाहिए ॥५॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (शचीवः) हे कर्मवन्तः कर्मकर्त्तारः ! “शची कर्मनाम” [निघ० २।१] ‘व्यत्ययेनैकवचनम्’ (अवसे) रक्षणाय (पृतन्यून् दमयन्तम्) सङ्ग्राममिच्छतः शत्रून् स्ववशे नयन्तं (अनानतम्) यः केनापि न-आनतीकर्त्तुं वशीकर्त्तुं शक्यस्तं महान्तं महच्छक्तिमन्तम् “अनानतस्य महतः” [निरु० १२।२०] (ऋभुक्षणं मघवानं सुवृक्तिम्) ऋभूनां मेधाविनां शिल्पिनां निवासकम्-“ऋभवः-मेधाविनः” [निघ० ५।१५] “ऋभू रथस्येवाङ्गानि सन्दधत् परुषापरुः” [अथर्व० ४।१२।७] प्रशस्तधनवन्तं सुष्ठु दुःखवर्जनकर्त्तारं (इन्द्रं कृणुध्वम्) स्वकीयं राजानं कुरुत (यः पुरुक्षुः) यो हि बहु भोजनीयान्नादिमान् “पुरुक्षुः पुरूंषि क्षून्यन्नानि यस्य सः” [ऋ० १।६५।५ दयानन्दः] (नर्यं वज्रं भर्त्ता) नरेभ्यः प्रजाजनेभ्यो हितकरमोजो धारयिता “वज्रो वा ओजः” [श० ८।४।१।२०] ॥५॥