यद्दे॑वा अ॒दः स॑लि॒ले सुसं॑रब्धा॒ अति॑ष्ठत । अत्रा॑ वो॒ नृत्य॑तामिव ती॒व्रो रे॒णुरपा॑यत ॥
                                    अंग्रेज़ी लिप्यंतरण
                  
                
                yad devā adaḥ salile susaṁrabdhā atiṣṭhata | atrā vo nṛtyatām iva tīvro reṇur apāyata ||
                  पद पाठ 
                  
                                यत् । दे॒वाः॒ । अ॒दः । स॒लि॒ले । सुऽसं॑रब्धाः । अति॑ष्ठत । अत्र॑ । वः॒ । नृत्य॑ताम्ऽइव । ती॒व्रः । रे॒णुः । अप॑ । आ॒य॒त॒ ॥ १०.७२.६
                  ऋग्वेद » मण्डल:10» सूक्त:72» मन्त्र:6 
                  | अष्टक:8» अध्याय:3» वर्ग:2» मन्त्र:1 
                  | मण्डल:10» अनुवाक:6» मन्त्र:6
                
              
                बार पढ़ा गया
        
                    ब्रह्ममुनि
                   पदार्थान्वयभाषाः -  (देवाः) हे प्रकाशमान रश्मियों ! किरणों ! (यत्) जब (अदः सलिले) उस अन्तरिक्ष में (सुसंरब्धाः-अतिष्ठत) दृढ़ता से सम्यक् कार्य युक्त स्थिर हो जाते हैं, (अत्र) इस अवसर पर (नृत्यताम्-इव वः) नाचते हुए जैसे सर्वत्र विचरते हुए तुम्हारा (तीव्रः-रेणुः-अपायत) प्रभावशाली ताप पृथिवी आदि लोकों पर पड़ता है ॥६॥              
              
              
                            
                  भावार्थभाषाः -  सूर्य की किरणें जब अन्तरिक्ष में दृढ़ हो जाती हैं, तो सर्वत्र नाचती हुई सी सर्वत्र विचरती हैं, तो इनका प्रभावशाली ताप पृथिवी आदि लोकों पर पड़ता है ॥६॥              
              
              
                            
              
              बार पढ़ा गया
        
                    ब्रह्ममुनि
                   पदार्थान्वयभाषाः -  (देवाः-यत्-अदः-सलिले) हे प्रकाशमाना रश्मयः ! यदा अमुष्मिन् ‘अदस् शब्दात्-‘ङि’ विभक्तेर्लुक्’ “सुपां सुलुक्” [अष्टा० ७।१।३९] अन्तरिक्षे “सलिलस्य-अन्तरिक्षस्य” [ऋ० ७।४९।१ दयानन्दः] (सुसंरब्धाः-अतिष्ठत) दृढत्वेन सम्यक् कार्ययुक्ताः स्थिता आसन् (अत्र) अस्मिन्नवसरे (नृत्यताम्-इव वः) नृत्यताम्-इव सर्वत्र विचरतां युष्माकं (तीव्रः-रेणुः-अपायत) तीव्रः प्रभावशाली तापः-अपगच्छति लोकेष्वपसरति ॥६॥              
              
              
              
              
                            
              
            
                  