वांछित मन्त्र चुनें

आग्ने॑ वह॒ वरु॑णमि॒ष्टये॑ न॒ इन्द्रं॑ दि॒वो म॒रुतो॑ अ॒न्तरि॑क्षात् । सीद॑न्तु ब॒र्हिर्विश्व॒ आ यज॑त्रा॒: स्वाहा॑ दे॒वा अ॒मृता॑ मादयन्ताम् ॥

अंग्रेज़ी लिप्यंतरण

āgne vaha varuṇam iṣṭaye na indraṁ divo maruto antarikṣāt | sīdantu barhir viśva ā yajatrāḥ svāhā devā amṛtā mādayantām ||

पद पाठ

आ । अ॒ग्ने॒ । व॒ह॒ । वरु॑णम् । इ॒ष्टये॑ । नः॒ । इन्द्र॑म् । दि॒वः । म॒रुतः॑ । अ॒न्तरि॑क्षात् । सीद॑न्तु । ब॒र्हिः । विश्वे॑ । आ । यज॑त्राः । स्वाहा॑ । दे॒वाः । अ॒मृताः॑ । मा॒द॒य॒न्ता॒म् ॥ १०.७०.११

ऋग्वेद » मण्डल:10» सूक्त:70» मन्त्र:11 | अष्टक:8» अध्याय:2» वर्ग:22» मन्त्र:6 | मण्डल:10» अनुवाक:6» मन्त्र:11


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (अग्ने) हे अग्रणायक परमात्मन् ! तू (नः-इष्टये) हमारे इष्टसुख की प्राप्ति के लिए (दिवः-वरुणम्-इन्द्रम्) मेघमण्डल से जल को, विद्युत् को प्राप्त करा (अन्तरिक्षात्-मरुतः-आ वह) तथा अन्तरिक्ष से वृष्टि के हेतुरूप वायुओं को प्रेरित कर (विश्वे यजत्राः स्वाहा) सारे याजक यजनीय पूज्य विद्वान् अच्छे होम करने के लिए (बर्हिः-आसीदन्तु) यज्ञस्थान में विराजमान हों (अमृताः-देवाः-मादयन्ताम्) जीवन्मुक्त विद्वान् हर्षित करें ॥११॥
भावार्थभाषाः - परमात्मा हमारी इष्टसिद्धि के लिए मेघमण्डल से जल को बरसाता है और अन्तरिक्ष से वर्षा करानेवाली हवाओं को प्रेरित करता है। एतदर्थ याजक लोग यजन करते हैं और जीवन्मुक्त विद्वान् हर्षित करते हैं ॥११॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (अग्ने) हे अग्रणायक परमात्मन् ! त्वम् (नः-इष्टये) अस्माकमिष्टसुखप्राप्तये “इष्टये सुखसिद्ध्यै” [ऋ० १।३०।१२ दयानन्दः] (दिवः-वरुणम्-इन्द्रम्-अन्तरिक्षात्-मरुतः-आवह) मेघमण्डलाज्जलं विद्युतं प्रापय तथाऽन्तरिक्षात्-मरुतः-वायून् वृष्टिहेतून् प्रापय-प्रेरय (विश्वे यजत्राः स्वाहा-बर्हिः-आसीदन्तु) सर्वे याजका यजनीयाः पूज्या विद्वांसो होमकरणाय यज्ञस्थानं विराजन्तां (अमृताः-देवाः-मादयन्ताम्) जीवन्मुक्ताश्च विद्वांसो हर्षयन्तु ॥११॥