वांछित मन्त्र चुनें

य॒दा व॒लस्य॒ पीय॑तो॒ जसुं॒ भेद्बृह॒स्पति॑रग्नि॒तपो॑भिर॒र्कैः । द॒द्भिर्न जि॒ह्वा परि॑विष्ट॒माद॑दा॒विर्नि॒धीँर॑कृणोदु॒स्रिया॑णाम् ॥

अंग्रेज़ी लिप्यंतरण

yadā valasya pīyato jasum bhed bṛhaspatir agnitapobhir arkaiḥ | dadbhir na jihvā pariviṣṭam ādad āvir nidhīm̐r akṛṇod usriyāṇām ||

पद पाठ

य॒दा । व॒लस्य॑ । पीय॑तः । जसु॑म् । भेत् । बृह॒स्पतिः॑ । अ॒ग्नि॒तपः॑ऽभिः । अ॒र्कैः । द॒त्ऽभिः । न । जि॒ह्वा । परि॑ऽविष्टम् । आद॑त् । आ॒विः । नि॒धीन् । अ॒कृ॒णो॒त् । उ॒स्रिया॑णाम् ॥ १०.६८.६

ऋग्वेद » मण्डल:10» सूक्त:68» मन्त्र:6 | अष्टक:8» अध्याय:2» वर्ग:17» मन्त्र:6 | मण्डल:10» अनुवाक:5» मन्त्र:6


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (बृहस्पतिः) महान् ज्ञान का पालक परमात्मा (यदा पीयतः-वलस्य-जसुम्) जब हिंसक आवरक अज्ञान के प्रयत्न-प्रभाव को (अग्नितपोभिः-अर्कैः) अग्नितापों के समान वेदमन्त्रों से (भेत्) छिन्न-भिन्न करता है, तब (दद्भिः परिविष्टं जिह्वा-आदत्) दाँतों से परिपिष्ट-चबाये हुए अन्न को जैसे जिह्वा भक्षण करती है, पुनः (उस्रियाणां निधीन्) प्रकट होती हुई वाणियों की निधियों-विद्याविषयों को (आविः-कृणोति) शिष्यों में आविष्कृत करता है ॥६॥
भावार्थभाषाः - परमात्मा अज्ञान के आवरक बल को नष्ट करने के हेतु वेदमन्त्रों से ज्ञान को फैलाता है, जिन मन्त्रों में ज्ञान के कोष निहित हैं ॥६॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (बृहस्पतिः) महतो ज्ञानस्य पालकः परमात्मा (यदा पीयतः-वलस्य जसुम्) यदा हिंसतः-आवरकाज्ञानस्य प्रयत्नं प्रभावम् (अग्नितपोभिः-अर्कैः) अग्नितापैरिव मन्त्रैः (भेत्) भिनत्ति, तदा (दद्भिः परिविष्टं जिह्वा-आदत्) दन्तैः “दन्तस्य ददादेशः” परिपिष्टमन्नम् ‘पकारस्य वकारश्छान्दसः’ यथा जिह्वा भक्षयति, पुनः (उस्रियाणां निधीन्-आविः-कृणोत्) उस्रवन्तीनां वाचां निधीन् विद्याविषयानाविष्करोति शिष्येषु ॥६॥