वांछित मन्त्र चुनें

धृ॒तव्र॑ताः क्ष॒त्रिया॑ यज्ञनि॒ष्कृतो॑ बृहद्दि॒वा अ॑ध्व॒राणा॑मभि॒श्रिय॑: । अ॒ग्निहो॑तार ऋत॒सापो॑ अ॒द्रुहो॒ऽपो अ॑सृज॒न्ननु॑ वृत्र॒तूर्ये॑ ॥

अंग्रेज़ी लिप्यंतरण

dhṛtavratāḥ kṣatriyā yajñaniṣkṛto bṛhaddivā adhvarāṇām abhiśriyaḥ | agnihotāra ṛtasāpo adruho po asṛjann anu vṛtratūrye ||

पद पाठ

धृ॒तऽव्र॑ताः । क्ष॒त्रियाः॑ । य॒ज्ञ॒निः॒ऽकृतः॑ । बृ॒ह॒त्ऽदि॒वाः । अ॒ध्व॒राणा॑म् । अ॒भि॒ऽश्रियः॑ । अ॒ग्निऽहो॑तारः । ऋ॒त॒ऽसापः॑ । अ॒द्रुहः॑ । अ॒पः । अ॒सृज॒न् । अनु॑ । वृ॒त्र॒ऽतूर्ये॑ ॥ १०.६६.८

ऋग्वेद » मण्डल:10» सूक्त:66» मन्त्र:8 | अष्टक:8» अध्याय:2» वर्ग:13» मन्त्र:3 | मण्डल:10» अनुवाक:5» मन्त्र:8


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (धृतव्रताः) दृढ़ सङ्कल्पवाले (क्षत्रियाः) धन के अधिकारी (यज्ञनिष्कृतः) श्रेष्ठकर्म से संस्कृत-सम्पन्न (बृहद्दिवाः) महाज्ञानी (अध्वराणम्) अहिंसनीय कर्मों के (अभिश्रियः) अच्छे आश्रयभूत (अग्निहोतारः) परमात्मा के उपासक (ऋतसापः) सत्य के आश्रयभूत (अद्रुहः) द्रोह न करनेवाले (वृत्रतूर्ये) पाप अज्ञान का नाश करने के लिए (अपः-अनु-असृजन्) कर्मों के अनुरूप गति करते हैं ॥८॥
भावार्थभाषाः - जो मनुष्य दृढ़सङ्कल्पी, महाज्ञानी, श्रेष्ठ कर्म के आचरणकर्ता होते हैं, वे सच्चे धन के अधिकारी होते हैं तथा परमात्मा के उपासक, किसी से भी द्रोह न करनेवाले, बाहर भीतर सत्य से परिपूर्ण जो महानुभाव हैं, वे पाप को नष्ट करने के लिए यथावत् प्रयत्न कर सकते हैं ॥८॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (धृतव्रताः) धृतं व्रतं यैस्ते धृतव्रताः-दृढसङ्कल्पाः (क्षत्रियाः) धनार्हाः “क्षत्रं धननाम” [निघ० २।१०] (यज्ञनिष्कृतः) यज्ञस्य श्रेष्ठकर्मणः संस्कृताः (बृहद्दिवाः) महाज्ञानिनः (अध्वराणाम्) अहिंसनीयकर्मणाम् (अभिश्रियः) अस्याश्रयभूताः (अग्निहोतारः) परमात्मोपासकाः (ऋतसापः) सत्यस्याश्रयभूताः (अद्रुहः) अद्रोग्धारः (वृत्रतूर्ये) पापाज्ञाननाशाय (अपः-अनु-असृजन्) कर्म-अनुगच्छन्ति ॥८॥