वांछित मन्त्र चुनें

र॒ण्वः संदृ॑ष्टौ पितु॒माँ इ॑व॒ क्षयो॑ भ॒द्रा रु॒द्राणां॑ म॒रुता॒मुप॑स्तुतिः । गोभि॑: ष्याम य॒शसो॒ जने॒ष्वा सदा॑ देवास॒ इळ॑या सचेमहि ॥

अंग्रेज़ी लिप्यंतरण

raṇvaḥ saṁdṛṣṭau pitumām̐ iva kṣayo bhadrā rudrāṇām marutām upastutiḥ | gobhiḥ ṣyāma yaśaso janeṣv ā sadā devāsa iḻayā sacemahi ||

पद पाठ

र॒ण्वः । सम्ऽदृ॑ष्टौ । पि॒तु॒मान्ऽइ॑व । क्षयः॑ । भ॒द्रा । रु॒द्राणा॑म् । म॒रुता॑म् । उप॑ऽस्तुतिः । गोभिः॑ । स्या॒म॒ । य॒शसः॑ । जने॑षु । आ । सदा॑ । दे॒वा॒सः॒ । इळ॑या । स॒चे॒म॒हि॒ ॥ १०.६४.११

ऋग्वेद » मण्डल:10» सूक्त:64» मन्त्र:11 | अष्टक:8» अध्याय:2» वर्ग:8» मन्त्र:1 | मण्डल:10» अनुवाक:5» मन्त्र:11


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (रण्वः) वह रमणीय परमात्मा (सन्दृष्टौ) साक्षात् दर्शन में (पितुमान्-इव क्षयः) अन्नभोगवान् निवास के समान है-आनन्दभण्डार है (रुद्राणां मरुताम्) उपदेष्टा जीवन्मुक्त विद्वानों का (उपस्तुतिः) अनुमोदनरूप आशीर्वाद (भद्रा) कल्याणकारी है (जनेषु-गोभिः-यशसः-आ स्याम) मनुष्यों में हम वाणी द्वारा यशस्वी प्रसिद्ध होवें (देवासः) हे विद्वानों ! (सदा-इळया सचेमहि) सदा स्तुतिवाणी से सङ्गत होवें ॥११॥
भावार्थभाषाः - परमात्मा रमणीय आनन्दभण्डार है। वह जीवन्मुक्त विद्वानों की अनुमोदनीय कल्याणकारी आशा है। उसकी स्तुति द्वारा मनुष्यों में यश और प्रसिद्धि के पात्र बन जाते हैं ॥११॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (रण्वः) रमणीयः स परमात्मा (सन्दृष्टौ) साक्षाद्दर्शने (पितुमान्-इव क्षयः) अन्नभोगवानिव निवासोऽस्ति  “पितुः-अन्नम्” [निघ० २।७] (रुद्राणां मरुताम्) विदुषाम् “रुद्राः-विद्वांसः” [यजु० ११।४८ दयानन्दः] उपदेष्टॄणां जीवन्मुक्तानाम्  ”मरुतो ह वै देवविशः” [कौ० ७।८] (उपस्तुतिः) उपप्रशस्तिरनुमोदनाशीः (भद्रा) कल्याणकारिणी भवति (जनेषु-गोभिः-यशसः-आ स्याम) मनुष्येषु वयं वाग्भिर्विद्याभिर्यशस्विनः समन्तात्प्रसिद्धा भवेम (देवासः) हे विद्वांसः ! (सदा-इळया सचेमहि) सर्वदा वाचा “इळा वाङ्नाम” [निघ० १।११] सङ्गच्छेम ॥११॥