वांछित मन्त्र चुनें

नृ॒चक्ष॑सो॒ अनि॑मिषन्तो अ॒र्हणा॑ बृ॒हद्दे॒वासो॑ अमृत॒त्वमा॑नशुः । ज्यो॒तीर॑था॒ अहि॑माया॒ अना॑गसो दि॒वो व॒र्ष्माणं॑ वसते स्व॒स्तये॑ ॥

अंग्रेज़ी लिप्यंतरण

nṛcakṣaso animiṣanto arhaṇā bṛhad devāso amṛtatvam ānaśuḥ | jyotīrathā ahimāyā anāgaso divo varṣmāṇaṁ vasate svastaye ||

पद पाठ

नृ॒ऽचक्ष॑सः । अनि॑ऽमिषन्तः । अ॒र्हणा॑ । बृ॒हत् । दे॒वासः॑ । अ॒मृ॒त॒ऽत्वम् । आ॒न॒शुः॒ । ज्यो॒तिःऽर॑थाः । अहि॑ऽमायाः । अना॑गसः । दि॒वः । व॒र्ष्माण॑म् । व॒स॒ते॒ । स्व॒स्तये॑ ॥ १०.६३.४

ऋग्वेद » मण्डल:10» सूक्त:63» मन्त्र:4 | अष्टक:8» अध्याय:2» वर्ग:3» मन्त्र:4 | मण्डल:10» अनुवाक:5» मन्त्र:4


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (देवासः) वे विद्वान् (नृचक्षसः) नरों के चेतानेवाले (अनिमिषन्तः) अपने कर्त्तव्यों में निमेष-अन्तर न करते हुए (अर्हणा) सर्वथा योग्य (बृहत्-अमृतत्वम्-आनशुः) महान् अमृत तत्त्व-मोक्षसुख को प्राप्त करते हैं (ज्योतिः-रथाः) ज्ञानप्रकाश में रमण जिनका है, वे (अहिमायाः) न हनन करने योग्य प्रज्ञावाले (अनागसः) पापरहित (दिवः-वर्ष्माणम्) मोक्ष के सुखवर्षक पद को (स्वस्तये वसते) कल्याण करने के लिए आच्छादन करते हैं ॥४॥
भावार्थभाषाः - अकुण्ठित बुद्धिवाले अपने कर्त्तव्यों में अन्तर न करनेवाले पापरहित होकर मोक्षसुख को प्राप्त करते हैं और संसार में भी कल्याण को, जो अपने ऊपर आच्छादित है ॥४॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (देवासः) ते विद्वांसः (नृचक्षसः) नराणां ख्यापकाः (अनिमिषन्तः) स्वकर्तव्येषु निमेषमन्तरं न कुर्वन्तः (अर्हणा) सर्वथा योग्याः “आकारादेशश्छान्दसः” (बृहत्-अमृतत्वम्-आनशुः) महदमृतत्वं मोक्षसुखं प्राप्नुवन्ति (ज्योतिः रथाः) ज्योतिषि ज्ञानप्रकाशे रमणं येषां ते (अहिमायाः) अहन्तव्यप्रज्ञाकाः (अनागसः) पापरहिताः (दिवः-वर्ष्माणम्) मोक्षस्य सुखवर्षकं पदं (स्वस्तये वसते) कल्याणकरणायाच्छादयन्ति ॥४॥