वांछित मन्त्र चुनें

येभ्यो॑ मा॒ता मधु॑म॒त्पिन्व॑ते॒ पय॑: पी॒यूषं॒ द्यौरदि॑ति॒रद्रि॑बर्हाः । उ॒क्थशु॑ष्मान्वृषभ॒रान्त्स्वप्न॑स॒स्ताँ आ॑दि॒त्याँ अनु॑ मदा स्व॒स्तये॑ ॥

अंग्रेज़ी लिप्यंतरण

yebhyo mātā madhumat pinvate payaḥ pīyūṣaṁ dyaur aditir adribarhāḥ | ukthaśuṣmān vṛṣabharān svapnasas tām̐ ādityām̐ anu madā svastaye ||

पद पाठ

येभ्यः॑ । मा॒ता । मधु॑ऽमत् । पिन्व॑ते । पयः॑ । पी॒यूष॑म् । द्यौः । अदि॑तिः । अद्रि॑ऽबर्हाः । उ॒क्थऽशु॑ष्मान् । वृ॒ष॒ऽभ॒रान् । स्वप्न॑सः । तान् । आ॒दि॒त्यान् । अनु॑ । म॒द॒ । स्व॒स्तये॑ ॥ १०.६३.३

ऋग्वेद » मण्डल:10» सूक्त:63» मन्त्र:3 | अष्टक:8» अध्याय:2» वर्ग:3» मन्त्र:3 | मण्डल:10» अनुवाक:5» मन्त्र:3


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (येभ्यः) जिन विद्वानों के लिए (माता) जगत् की माता या जगत् का निर्माता परमात्मा (मधुमत् पयः पिन्वते) मधुर वेदज्ञान रस को सींचता है-देता है (अद्रिबर्हाः) प्रशंसाकर्ताओं को बढ़ानेवाला (अदितिः) अखण्डित (द्यौः) ज्ञानप्रकाशमान परमात्मा (पीयूषम्) अमृत मोक्षानन्द को सींचता है-देता है (तान्-उक्थशुष्मान्) उन वेदवाणीबलवालों को (आदित्यान्) अखण्डित ब्रह्मचर्यवाले विद्वानों को (स्वस्तये-अनुमद) कल्याण के लिए हर्षित कर तृप्त कर ॥३॥
भावार्थभाषाः - ज्ञानप्रकाशमान जगत् का रचयिता परमात्मा जिन अखण्डित ब्रह्मचारियों को वेदज्ञान अमृत मोक्ष प्रदान करता है, उनको प्रत्येक प्रकार से अपने कल्याणार्थ तृप्त करना चाहिए ॥३॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (येभ्यः) येभ्यो विद्वद्भ्यः (माता) जगन्माता परमात्मा (मधुमत् पयः पिन्वते) मधुरं वेदज्ञानरसम् “पयसा शब्दार्थसम्बन्धरसेन” [यजु० २०।४३ दयानन्दः] सिञ्चति-प्रयच्छति “पिवि सेचने” [भ्वादिः] (अद्रिबर्हाः-अदितिः-द्यौः पीयूषम्) प्रशंसाकर्तृवर्धकः “अद्रिरसि श्लोककृत्” [काठ० १।५] अखण्डितो ज्ञानप्रकाशमानः परमात्मा “द्यौः प्रकाशमानः परमात्मा” [ऋ० १।८९।१० दयानन्दः] अमृतं मोक्षानन्दम् “पीयूषम्-अमृतम्” [ऋ० ६।४७।४ दयानन्दः] सिञ्चति-प्रयच्छति (तान्-उक्थशुष्मान्) तान् वेदवाग्बलयुक्तान् (वृषभरान्) वृष्टियज्ञपूर्णान् मेघानिव ज्ञानामृत-रसपूर्णान् (स्वप्नसः) शुभकर्मवतः “अप्नः कर्मनाम” [निघ०  २।१] (आदित्यान्) अखण्डितब्रह्मचर्यवतो विदुषः (स्वस्तये अनुमद) कल्याणाय खल्वनुमोदय हर्षय तर्पय ॥३॥