वांछित मन्त्र चुनें

तदिन्न्व॑स्य परि॒षद्वा॑नो अग्मन्पु॒रू सद॑न्तो नार्ष॒दं बि॑भित्सन् । वि शुष्ण॑स्य॒ संग्र॑थितमन॒र्वा वि॒दत्पु॑रुप्रजा॒तस्य॒ गुहा॒ यत् ॥

अंग्रेज़ी लिप्यंतरण

tad in nv asya pariṣadvāno agman purū sadanto nārṣadam bibhitsan | vi śuṣṇasya saṁgrathitam anarvā vidat puruprajātasya guhā yat ||

पद पाठ

तत् । इत् । नु । अ॒स्य॒ । प॒रि॒ऽसद्वा॑नः । अ॒ग्म॒न् । पु॒रु । सद॑न्तः । ना॒र्स॒दम् । बि॒भि॒त्सन् । वि । शुष्ण॑स्य । सम्ऽग्र॑थितम् । अ॒न॒र्वा । वि॒दत् । पु॒रु॒ऽप्र॒जा॒तस्य । गुहा॑ । यत् ॥ १०.६१.१३

ऋग्वेद » मण्डल:10» सूक्त:61» मन्त्र:13 | अष्टक:8» अध्याय:1» वर्ग:28» मन्त्र:3 | मण्डल:10» अनुवाक:5» मन्त्र:13


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (अस्य) इस वैराग्यवान् आत्मा के (तत्-इत्-नु) वह फिर (परिषद्वानः) सर्वतः वर्तमान प्राण-इन्द्रिय शक्तियाँ (अग्मन्) शरीर में प्राप्त होती हैं, व्यक्त होती हैं। (पुरु सदन्तः) बहुत या सब अङ्गों को प्राप्त होते हैं (नार्षदं बिभित्सन्) प्राण से निर्वृत्त-सिद्ध या पूरित शरीर को विषय ग्रहण के अयोग्य करते हुए अर्थात् इन्द्रियों के छिद्रों को विषयग्रहण से रहित करता है (अनर्वा) अनन्य-आश्रित अर्थात् इन्द्रियों के पीछे न चलता हुआ-निर्विषयक हुआ (पुरु प्रजातस्य शुष्णस्य संग्रथितम्) बहुत प्रकार से प्रसिद्ध हुए बलवान् वैराग्यवान् आत्मा का सङ्कल्पित (विविदत् गुहा यत्) विशिष्टतया जानता है, जो हृद्गुहा में वर्तमान परमात्मा है ॥१३॥
भावार्थभाषाः - वैराग्यवान् आत्मा प्राणों से पूरित शरीर के अन्दर वर्तमान हुआ इन्द्रियों के विषयग्रहण छिद्रों को विषयरहित करके हृदयगुहा में परमात्मा को साक्षात् करता है ॥१३॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (अस्य) एतस्य वैराग्यवत आत्मनः (तत्-इत्-नु) तत्खलु पुनः (परिषद्वानः) परितो वर्तमानाः प्राणाः-इन्द्रियशक्तयः (अग्मन्) शरीरे प्राप्ता भवन्ति-व्यक्तीभवन्ति (पुरु सदन्तः) बहूनि सर्वाण्यङ्गानि प्राप्नुवन्तः-इन्द्रियप्राणाः (नार्षदं बिभित्सन्) शरीरम् “प्राणो वै नृषत्” [श० ६।७।३।११] प्राणेन निर्वृत्तं पूरितं वा भेत्तुमिच्छन्-विषयग्रहणाय-अयोग्यं कुर्वन् भिनत्तीत्यर्थः, तत्र स्वस्वछिद्राणि विषयग्रहणानि भिनत्ति विषयरहितानि करोति (अनर्वा) अनन्याश्रितः-इन्द्रियानुगमरहितो निर्विषयकः (पुरुप्रजातस्य शुष्णस्य सङ्ग्रथितम्) बहुप्रकारेण जातस्य शुष्मिणो बलवतो वैराग्यवता आत्मनः सङ्कल्पितं (विविदत् गुहा  यत्) विशिष्टतया जानाति यत् खलु हृदयं गुहायां वर्तते परमात्मा ॥१३॥