वांछित मन्त्र चुनें

यो जना॑न्महि॒षाँ इ॑वातित॒स्थौ पवी॑रवान् । उ॒ताप॑वीरवान्यु॒धा ॥

अंग्रेज़ी लिप्यंतरण

yo janān mahiṣām̐ ivātitasthau pavīravān | utāpavīravān yudhā ||

पद पाठ

यः । जना॑न् । म॒हि॒षान्ऽइ॑व । अ॒ति॒ऽत॒स्थौ । पवी॑रवान् । उ॒त । अप॑वीरवान् । यु॒धा ॥ १०.६०.३

ऋग्वेद » मण्डल:10» सूक्त:60» मन्त्र:3 | अष्टक:8» अध्याय:1» वर्ग:24» मन्त्र:3 | मण्डल:10» अनुवाक:4» मन्त्र:3


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (यः) जो इन्द्र ऐश्वर्यवान् शासक (पवीरवान्) शस्त्रास्त्रवाला (महिषान्-इव जनान्) महान् योद्धा जनों को अथवा जैसे भैंसों को सिंह ऐसे ही योद्धाजनों को (युधा-अतितस्थौ) युद्ध से-युद्ध करके तिरस्कृत करता है-स्वाधीन करता है (उत-अपवीरवान्) अपितु बिना शस्त्रास्त्रवाला रहता हुआ भी स्वाधीन करता है ॥३॥
भावार्थभाषाः - राजा या शासक ऐसा होना चाहिए, जो शत्रुओं को संग्राम में शस्त्रास्त्रों द्वारा परास्त करके स्वाधीन करे अथवा बिना शस्त्रास्त्र के भी शारीरिक बल द्वारा जैसे सिंह भैंसों को पछाड़ता है, ऐसे शत्रुओं को पछाड़े ॥३॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (यः) य इन्द्र ऐश्वर्यवान् शासकः (पवीरवान्) आयुधवान् “पविः शल्यो भवति, तद्वत् पवीरमायुधं तद्वानिन्द्रः पवीरवान्” [निरु० १२।३०] [महिषान्-इव जनान्] महतो योद्धॄन् जनान् “इवोऽत्रानर्थकः” “इवोऽपि दृश्यते” [निरु० १।११] यद्वा महिषः पशून् यथा सिंहः ‘लुप्तोपमावाचकालङ्कारः’ तथा योद्धॄन् जनान् (युधा-अतितस्थौ) योधनेन युद्धेन-अतिक्रम्य तिरस्कृत्य तिष्ठति स्वाधीनीकरोति (उत-अपवीरवान्) अपित्वनायुधवान् सन्नपि स्वाधीनीकरोति ॥३॥