वांछित मन्त्र चुनें
देवता: अग्निः ऋषि: त्रितः छन्द: पङ्क्तिः स्वर: पञ्चमः

सं यस्मि॒न्विश्वा॒ वसू॑नि ज॒ग्मुर्वाजे॒ नाश्वा॒: सप्ती॑वन्त॒ एवै॑: । अ॒स्मे ऊ॒तीरिन्द्र॑वाततमा अर्वाची॒ना अ॑ग्न॒ आ कृ॑णुष्व ॥

अंग्रेज़ी लिप्यंतरण

saṁ yasmin viśvā vasūni jagmur vāje nāśvāḥ saptīvanta evaiḥ | asme ūtīr indravātatamā arvācīnā agna ā kṛṇuṣva ||

पद पाठ

सम् । यस्मि॑न् । विश्वा॑ । वसू॑नि । ज॒ग्मुः । वाजे॑ । न । अश्वाः॑ । सप्ति॑ऽवन्तः । एवैः॑ । अ॒स्मे इति॑ । ऊ॒तीः । इन्द्र॑वातऽतमाः । अ॒र्वा॒ची॒नाः । अ॒ग्ने॒ । आ । कृ॒णु॒ष्व॒ ॥ १०.६.६

ऋग्वेद » मण्डल:10» सूक्त:6» मन्त्र:6 | अष्टक:7» अध्याय:6» वर्ग:1» मन्त्र:6 | मण्डल:10» अनुवाक:1» मन्त्र:6


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (यस्मिन्) जिस अग्रणायक परमात्मा में (विश्वा वसूनि सञ्जग्मुः) बसानेवाले समस्त धन भोग सुख सङ्गत हैं, जिसके पा लेने पर सब धन भोग सुख प्राप्त हो जाते हैं (वाजे न सप्तीवन्तः-अश्वाः-एवैः) जैसे बलों से पूर्णस्थल-संग्राम में गतिक्रमों से वायुबलवाले घोड़े पहुँचे हुए या प्राप्त होते हुए (अग्ने) अग्रणायक परमात्मन् ! तू (अस्मे) हमारे लिये-हमारे में या हमारे अन्दर (इन्द्रवाततमाः-ऊतीः) विद्युत् वायुवाली शक्ति और जीवन देनेवाली प्रीति तृप्तियों को (अर्वाचीनाःआकृणष्व ) इधर की ओर प्रेरित कर ॥६॥
भावार्थभाषाः - परमात्मा की प्राप्ति सब सुखों की प्राप्ति है। जैसे बलपूर्ण संग्राम में अश्वबल आदि सब बल प्राप्त होते हैं, ऐसे ही परमात्मा हमारे अन्दर सब बल और जीवन देनेवाली रक्षा प्रीति तृप्तियों को प्रेरित करता है, अतः उसकी शरण और उपासना आवश्यक है ॥६॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (यस्मिन्) यस्मिन्नग्रणायके परमात्मनि (विश्वा वसूनि सञ्जग्मुः) सर्वाणि वासयोग्यानि धनादीनि समवेतानि वर्तन्ते यद्वा यस्मिन् प्राप्ते सर्वाणि धनानि प्राप्तानि भवन्तीति मान्यतासम्भवः ‘यस्मिन् विज्ञाते सर्वमिदं विज्ञातं भवतीतिवत्’, (वाजे न सप्तीवन्तः-अश्वाः-एवैः) बलपूर्णे सङ्ग्रामे “वाजे सङ्ग्रामनाम” [निघ० २।१७] यथा वायुवन्तः-वायुबलवन्तोऽश्वाः अयनैर्गतिक्रमैः सञ्चरन्ते “वायुः सप्तिः” [तै० १।३।६।४] “एवैः अयनैः” [निघ० २।२५] (अग्ने) एतादृश हे-अग्रणायक परमात्मन् ! त्वम् (अस्मे) अस्मभ्यम् ‘अस्मद् शब्दात् शे’ “सुपां सुलक्पूर्वसवर्णाच्छे....[अष्टा० ७।१।३९] इति शे प्रत्ययः, “शे” [अष्टा० १।१।१३] प्रगृह्यसञ्ज्ञात्वात् प्रकृतिभावः (ऊतीः) रक्षाप्रीतितृप्तीः (इन्द्रवाततमाः) अतिशयेन विद्युद्वातयुक्ताः (अर्वाचीनाः) अस्मदभिमुखाः (आ कृणष्व) आकारय-प्रेरय ॥६॥