वांछित मन्त्र चुनें

तमु॒स्रामिन्द्रं॒ न रेज॑मानम॒ग्निं गी॒र्भिर्नमो॑भि॒रा कृ॑णुध्वम् । आ यं विप्रा॑सो म॒तिभि॑र्गृ॒णन्ति॑ जा॒तवे॑दसं जु॒ह्वं॑ स॒हाना॑म् ॥

अंग्रेज़ी लिप्यंतरण

tam usrām indraṁ na rejamānam agniṁ gīrbhir namobhir ā kṛṇudhvam | ā yaṁ viprāso matibhir gṛṇanti jātavedasaṁ juhvaṁ sahānām ||

पद पाठ

तम् । उ॒स्राम् । इन्द्र॑म् । न । रेज॑मानम् । अ॒ग्निम् । गीः॒ऽभिः । नमः॑ऽभिः । आ । कृ॒णु॒ध्व॒म् । आ । यम् । विप्रा॑सः । म॒तिऽभिः॑ । गृ॒णन्ति॑ । जा॒तऽवे॑दसम् । जु॒ह्व॑म् । स॒हाना॑म् ॥ १०.६.५

ऋग्वेद » मण्डल:10» सूक्त:6» मन्त्र:5 | अष्टक:7» अध्याय:6» वर्ग:1» मन्त्र:5 | मण्डल:10» अनुवाक:1» मन्त्र:5


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (यं जातवेदसं सहानां जुह्वम्) जिस उत्पन्नमात्र के वेत्ता तथा बलवाले, शक्तिशाली वायु विद्युत् आदि को अपने अन्दर ग्रहण करनेवाले महान् आत्मा परमात्मा का (विप्रासः-मतिभिः-आ गृणन्ति) आदि ऋषि महानुभाव वाणियों से समन्तरूप से उपदेश करते रहे (तम्-उस्राम्) उस सुखस्रावी या अपने अन्दर वास देनेवाले (इन्द्रं न रेजमानम्-अग्निम्) विद्युत् के समान दुष्ट को कंपा देनेवाले अग्रणायक परमात्मा के (गीर्भिः-नमोभिः-कृणुध्वम्) स्तुतिवाणियों द्वारा और अध्यात्मयज्ञों-योगाभ्यासों द्वारा हे उपासकजनो ! उसे साक्षात् करो ॥५॥
भावार्थभाषाः - उत्पन्नमात्र संसार का ज्ञाता-सर्वज्ञ, शक्तिशाली विद्युत् वायु आदि को अपने अधीन रखनेवाला जिसका आदि ऋषि महानुभाव उपदेश करते रहे, उस सुखदाता, दुष्टों को दण्ड देनेवाले परमात्मा की स्तुति उपासना करनी चाहिये और योगाभ्यासों द्वारा साक्षात् करना चाहिये ॥५॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (यं जातवेदसं सहानां जुह्वम्) यं खलु जातस्योत्पन्नमात्रस्य वेत्तारम्, सहस्वतां बलवतां स्वाभ्यन्तरे ग्रहीतारं परममात्मानम् “आत्मा वै जुहूः” [मै० ४।१।१२] (विप्रासः) षयः “विप्रा-यदृषयः” [श० ६।४।२।७] (मतिभिः-आ गृणन्ति) वाग्भिः समन्तादुपदिशन्ति “वाग्वै मतिः” [श० ८।१।२।७] (तम् उस्राम्) तं सुखस्योत्स्राविणम् “उस्रा उत्स्राविणोऽस्यां भोगाः” [निरु० ४।१९] उत् स्रुगतौ ततो डः प्रत्ययः कर्त्तरि पुनः “अम् प्रत्यये पूर्वरूपाभावश्छान्दसः उपसर्गस्य तकारलोपश्चापि छान्दसः, यद्वा स्वस्मिन् वासयितारम् अथवा वस् धातोः-रक् छान्दसो दीर्घः, यद्वा स्वाभ्यन्तरे वासदातारं ‘वस धातोः क्विपि भावे-उस्, उसं-वासं ददाति यः उस्राः, तम् “सम्प्रसारणाभावश्छान्दसः” (इन्द्रं न रेजमानम्-अग्निम्) इन्द्रो विद्युद्रूपोऽग्निस्तमिव कम्पायमानमग्रणायकं परमात्मानम् (गीर्भिः-नमोभिः आ कृणुध्वम्) स्तुतिभिरध्यात्मयज्ञैश्च “यज्ञो वै नमः” [श० २।४।२।२४] साक्षात्कुरुतम्-यूयमुपासका इति शेषः ॥५॥