वांछित मन्त्र चुनें

यदु॑ष॒ औच्छ॑: प्रथ॒मा वि॒भाना॒मज॑नयो॒ येन॑ पु॒ष्टस्य॑ पु॒ष्टम् । यत्ते॑ जामि॒त्वमव॑रं॒ पर॑स्या म॒हन्म॑ह॒त्या अ॑सुर॒त्वमेक॑म् ॥

अंग्रेज़ी लिप्यंतरण

yad uṣa aucchaḥ prathamā vibhānām ajanayo yena puṣṭasya puṣṭam | yat te jāmitvam avaram parasyā mahan mahatyā asuratvam ekam ||

पद पाठ

यत् । उ॒षः॒ । औच्छः॑ । प्र॒थ॒मा । वि॒ऽभाना॑म् । अज॑नयः । येन॑ । पु॒ष्टस्य॑ । पु॒ष्टम् । यत् । ते॒ । जा॒मि॒ऽत्वम् । अव॑रम् । पर॑स्याः । म॒हत् । म॒ह॒त्याः । अ॒सु॒र॒ऽत्वम् । एक॑म् ॥ १०.५५.४

ऋग्वेद » मण्डल:10» सूक्त:55» मन्त्र:4 | अष्टक:8» अध्याय:1» वर्ग:16» मन्त्र:4 | मण्डल:10» अनुवाक:4» मन्त्र:4


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (उषः) हे ब्रह्मशक्ति ! ब्रह्मदीप्ति ! (यत्) जब (औच्छः) तू जगत् में प्रकाशित होती है (प्रथमा-विभानाम्-अजनयः) सूर्यादि ज्योतियों में प्रमुखरूप से प्रसिद्ध होती है (येन पुष्टस्य पुष्टम्) जिससे सर्वकलायुक्त प्रकटीभूत जगत् की पोषण करने योग्य शरीर है (ते यत्-अवरं जामित्वम्) तेरा जो इधर सांसारिक मातृत्व है (महत्याः परस्याः-महत्-असुरत्वम्-एकम्) तुझ महती मोक्षसाधिका का जननीत्व, दूसरा प्राण प्रदान करना मोक्षविषयक है ॥४॥
भावार्थभाषाः - परमात्मज्योति या दीप्ति समस्त दीप्तिमान् पदार्थों में भासित होती है। वह संसार की जननी है, यह उसका एकरूप है। दूसरा रूप मोक्ष-अमरजीवन की प्रदात्री है। वह ज्योति मनुष्य को उपासना से प्राप्त होती है ॥४॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (उषः) हे ब्रह्मशक्ते ! ब्रह्मदीप्ते ! (यत्) यदा (औच्छः) त्वमुच्छसि-जगति प्रकाशिता भवसि (प्रथमा विभानाम्-अजनयः) ज्योतिषां सूर्यादीनां प्रमुखा जायसे प्रसिद्ध्यसि “स्वार्थे णिच् छान्दसः” (येन पुष्टस्य पुष्टम्) येन खलु पुष्टस्य सर्वकलायुक्तस्य प्रकटीकृतस्य जगतः पोषयितव्यं शरीरं भवति (ते यत्-अवरम्-जामित्वम्) तव यदवरं जननीत्वं खल्ववरं सांसारिकमस्ति (महत्याः परस्याः महत् असुरत्वम्-एकम्) महद्भूताया मोक्षसाधिकायास्तव जननीत्वमपरं महदसुरत्वम्-अतीव-प्राणप्रदत्वं मोक्षविषयकमस्ति ॥४॥