वांछित मन्त्र चुनें

त्वष्टा॑ मा॒या वे॑द॒पसा॑म॒पस्त॑मो॒ बिभ्र॒त्पात्रा॑ देव॒पाना॑नि॒ शंत॑मा । शिशी॑ते नू॒नं प॑र॒शुं स्वा॑य॒सं येन॑ वृ॒श्चादेत॑शो॒ ब्रह्म॑ण॒स्पति॑: ॥

अंग्रेज़ी लिप्यंतरण

tvaṣṭā māyā ved apasām apastamo bibhrat pātrā devapānāni śaṁtamā | śiśīte nūnam paraśuṁ svāyasaṁ yena vṛścād etaśo brahmaṇas patiḥ ||

पद पाठ

त्वष्टा॑ । मा॒या । वे॒त् । अ॒पसा॑म् । अ॒पःऽत॑मः । बिभ्र॑त् । पात्रा॑ । दे॒व॒ऽपाना॑नि । शम्ऽत॑मा । शिशी॑ते । नू॒नम् । प॒र॒शुम् । सु॒ऽआ॒य॒सम् । येन॑ । वृ॒श्चात् । एत॑शः । ब्रह्म॑णः । पतिः॑ ॥ १०.५३.९

ऋग्वेद » मण्डल:10» सूक्त:53» मन्त्र:9 | अष्टक:8» अध्याय:1» वर्ग:14» मन्त्र:4 | मण्डल:10» अनुवाक:4» मन्त्र:9


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (अपसाम्-अपस्तमः) प्रशस्त कर्मवालों में अतिशय से प्रशस्त कर्मवाला (एतशः) सर्वव्यापक (ब्रह्मणः-पतिः) ब्रह्माण्ड का पालक स्वामी (त्वष्टा) रचयिता परमात्मा (मायाः-वेत्) मनुष्यों के कर्मों को जानता है (देवपानानि शन्तमा पात्रा बिभ्रत्) मुमुक्षुजन जिनके द्वारा विशिष्ट कल्याणकर आनन्द का पान करते हैं उन साङ्कल्पिक इन्द्रियों को धारण करता है-अपने आनन्द से भरता है (स्वायसं परशुं नूनं शिशीते) शोभन तेजोमय परशु अर्थात् परों-दूसरों-प्रतिकूलों को हिंसित जिससे करता है, उस ज्ञान को प्रखर बनाता है (येन वृश्चात्) जिस ज्ञान के द्वारा उन आनन्दपात्रों को सम्पन्न करता है ॥९॥
भावार्थभाषाः - समस्त कर्म करनेवाले उत्कृष्ट मानव की अपेक्षा प्रशस्त कर्म करनेवाला परमात्मा है। वह सबके कर्मों को यथावत् जानता है। मुमुक्षुओं के कर्मानुसार मोक्ष में उन्हें साङ्कल्पिक मन श्रोत्र आदिओं आनन्द के पात्रों को सम्पन्न करता है ॥९॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (अपसाम्-अपस्तमः) कर्मवतामतिशयेन कर्मवान् “अपः कर्मनाम” [निघ० २।१] ‘मतुब्लोपश्छान्दसः’ (एतशः) सर्वस्मिन् जगति प्राप्तो व्याप्तः “सर्वं जगदितः स्वव्याप्त्या प्राप्तः ‘इणस्तशतसुनौ [उणा० ३।१४७। यजु० ११।६ दयानन्दः] (ब्रह्मणः-पति) ब्रह्माण्डस्य पतिः (त्वष्टा) रचयिता परमात्मा (मायाः-वेत्) मनुष्याणां कर्माणि “मायिनाम्-बहुविधं कर्म विद्यते तेषाम्, अत्र भूमि-अर्थे-इनि प्रत्ययः” [ऋ० १।१३२।४ दयानन्दः] वेत्-जानाति (देवपानानि शन्तमा पात्रा बिभ्रत्) देवाः-मुक्ताः पिबन्ति यैस्तानि विशिष्टकल्याणकराणि पात्राणि साङ्कल्पिकेन्द्रियाणि धारयति “शृण्वन् श्रोत्रं भवति…” [श० १४।२।२।१७] (स्वायसं परशुं नूनं शिशीते) शोभनं तेजोमयं “आयसः-तेजोमयः” [ऋ० १।८०।१२ दयानन्दः] परान् प्रतिकूलान् शृणाति हिनस्ति येन तं तेजोमयज्ञानं तीक्ष्णयति (येन वृश्चात्) तानि मोक्षे खल्वानन्दपानपात्राणि तक्षति करोति सम्पादयति ॥९॥