वांछित मन्त्र चुनें

पञ्च॒ जना॒ मम॑ हो॒त्रं जु॑षन्तां॒ गोजा॑ता उ॒त ये य॒ज्ञिया॑सः । पृ॒थि॒वी न॒: पार्थि॑वात्पा॒त्वंह॑सो॒ऽन्तरि॑क्षं दि॒व्यात्पा॑त्व॒स्मान् ॥

अंग्रेज़ी लिप्यंतरण

pañca janā mama hotraṁ juṣantāṁ gojātā uta ye yajñiyāsaḥ | pṛthivī naḥ pārthivāt pātv aṁhaso ntarikṣaṁ divyāt pātv asmān ||

पद पाठ

पञ्च॑ । ज॒नाः॒ । मम॑ । हो॒त्रम् । जु॒ष॒न्ता॒म् । गोऽजा॑ताः । उ॒त । ये । य॒ज्ञिया॑सः । पृ॒थि॒वी । नः॒ । पार्थि॑वात् । पा॒तु॒ । अंह॑सः । अ॒न्तरि॑क्षम् । दि॒व्यात् । पा॒तु॒ । अ॒स्मान् ॥ १०.५३.५

ऋग्वेद » मण्डल:10» सूक्त:53» मन्त्र:5 | अष्टक:8» अध्याय:1» वर्ग:13» मन्त्र:5 | मण्डल:10» अनुवाक:4» मन्त्र:5


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (पञ्चजनाः-मम होत्रं जुषन्ताम्) मनुष्य मेरे ह्वान-वचन को सेवन करें (गोजाताः-उत ये यज्ञियासः) वेदवाणी के अन्दर जो निष्णात हैं तथा जो कर्मकाण्डी हैं, (पृथिवी नः पार्थिवात्-अंहसः-अस्मान् पातु) सम्यग् वेदोपदेश का स्मरण करते हुए हम लोगों की पृथिवी, पृथिवीसम्बन्धी दोष से रक्षा करे (अन्तरिक्षं दिव्यात् पातु) आकाश आकाशसम्बन्धी अर्थात् वृष्टिदोष से हमारी रक्षा करे ॥५॥
भावार्थभाषाः - गृहस्थ आश्रमी की आकाङ्क्षा-प्रार्थना होनी चाहिए कि उसके वचन को वेद-निष्णात और कर्मकाण्डी विद्वान् सुनें तथा उसका व्यवहार भी ऐसा होना चाहिए कि पृथिवी के पार्थिव दोषों से-उपद्रवों से बचा रहे और आकाश के आकाशीय वृष्टि-अतिवृष्टि आदि आघातों से बचा रहे ॥५॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (पञ्चजनाः मम होत्रं जुषन्ताम्) मनुष्याः-खलु मम ह्वानं वचनं सेवन्ताम् (गोजाताः-उत ये यज्ञियासः) वेदवाचि जाता निष्णाताः, तथा ये यज्ञार्हाः कर्मकाण्डिनः (पृथिवी नः पार्थिवात् अंहसः-अस्मान् पातु) सम्यग्वेदोपदेशमनुसरतोऽस्मान् पृथिवी, पृथिवीसम्बन्धिनो दोषादस्मान् पातु-रक्षति-रक्षिष्यति (अन्तरिक्षं दिव्यात् पातु) अन्तरिक्षमाकाशः, दिविभवादाकाशभवाद् दोषादतिवृष्ट्यादेर्दोषाद् रक्षतु-रक्षिष्यति ॥५॥