वांछित मन्त्र चुनें

अवा॒ नु कं॒ ज्याया॑न्य॒ज्ञव॑नसो म॒हीं त॒ ओमा॑त्रां कृ॒ष्टयो॑ विदुः । असो॒ नु क॑म॒जरो॒ वर्धा॑श्च॒ विश्वेदे॒ता सव॑ना तूतु॒मा कृ॑षे ॥

अंग्रेज़ी लिप्यंतरण

avā nu kaṁ jyāyān yajñavanaso mahīṁ ta omātrāṁ kṛṣṭayo viduḥ | aso nu kam ajaro vardhāś ca viśved etā savanā tūtumā kṛṣe ||

पद पाठ

अव॑ । नु । क॒म् । ज्याया॑न् । य॒ज्ञऽव॑नसः । म॒हीम् । ते॒ । ओमा॑त्राम् । कृ॒ष्टयः॑ । वि॒दुः॒ । असः॑ । नु । क॒म् । अ॒जरः॑ । वर्धाः॑ । च॒ । विश्वा॑ । इत् । ए॒ता । सव॑ना । तू॒तु॒मा । कृ॒षे॒ ॥ १०.५०.५

ऋग्वेद » मण्डल:10» सूक्त:50» मन्त्र:5 | अष्टक:8» अध्याय:1» वर्ग:9» मन्त्र:5 | मण्डल:10» अनुवाक:4» मन्त्र:5


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (ज्यायान्) हे इन्द्र ऐश्वर्यवन् परमात्मन् ! तू महान् है (यज्ञवनसः-नु कम्-अव) अध्यात्मयज्ञ को जो सेवन करते हैं, उनकी शीघ्र रक्षा कर (ते महीम्-ओमात्रां कृष्टयः-विदुः) तेरी महती रक्षा को मनुष्य जानते हैं (अजरः-नु कम्-असः-च वर्धाः) तू अजर-जरारहित है, शीघ्र हमें बढ़ा (विश्वा-एता सवना-इत्-तूतुमा-कृषे) सारी इन निष्पादन करने योग्य स्तुति-प्रार्थना-उपासनाओं को शीघ्र स्वीकार करता है, ये भी जानते हैं ॥५॥
भावार्थभाषाः - परमात्मा महान् है, उसकी रक्षणशक्ति भी महती है। वह अध्यात्मयाजी जनों की पूरी रक्षा करता है। उसकी स्तुति, प्रार्थना, उपासनाओं को अवश्य शीघ्र स्वीकार करता है ॥५॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (ज्यायान्) हे इन्द्र-ऐश्वर्यवन् परमात्मन् ! त्वं महान्-असि (यज्ञवनसः-नु कम्-अव) ये-अध्यात्मयज्ञं वनन्ति सम्भजन्ति-अध्यात्मयज्ञस्यानुष्ठातारस्तान् शीघ्रं रक्ष (ते महीम्-ओमात्रां कृष्टयः-विदुः) तव महतीं रक्षाम् “अव रक्षणे” [भ्वादिः] ‘मात्रन् प्रत्ययो बाहुलकादौणादिकः, ऊठ् च बाहुलादेव’ मनुष्या जानन्ति (अजरः नु कम्-असः-च वर्धाः) त्वं खल्वजरो जरारहितो भवसि शीघ्रं वर्धय (विश्वा-एता सवना-इत्-तूतुमा-कृषे) सर्वाणि-एतानि सवनानि निष्पाद्यानि स्तुतिप्रार्थनोपासनानि शीघ्रं स्वीकरोषि, इत्यपि जानन्ति ॥५॥