वांछित मन्त्र चुनें

अ॒हमत्कं॑ क॒वये॑ शिश्नथं॒ हथै॑र॒हं कुत्स॑मावमा॒भिरू॒तिभि॑: । अ॒हं शुष्ण॑स्य॒ श्नथि॑ता॒ वध॑र्यमं॒ न यो र॒र आर्यं॒ नाम॒ दस्य॑वे ॥

अंग्रेज़ी लिप्यंतरण

aham atkaṁ kavaye śiśnathaṁ hathair ahaṁ kutsam āvam ābhir ūtibhiḥ | ahaṁ śuṣṇasya śnathitā vadhar yamaṁ na yo rara āryaṁ nāma dasyave ||

पद पाठ

अ॒हम् । अत्क॑म् । क॒वये॑ । शि॒श्न॒थ॒म् । हथैः॑ । अ॒हम् । कुत्स॑म् । आ॒व॒म् । आ॒भिः । ऊ॒तिऽभिः॑ । अ॒हम् । शुष्ण॑स्य । श्नथि॑ता । वधः॑ । यम॑म् । न । यः । र॒रे । आर्य॑म् । नाम॑ । दस्य॑वे ॥ १०.४९.३

ऋग्वेद » मण्डल:10» सूक्त:49» मन्त्र:3 | अष्टक:8» अध्याय:1» वर्ग:7» मन्त्र:3 | मण्डल:10» अनुवाक:4» मन्त्र:3


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (अहं कवये-अत्कं शिश्नथम्) मैं परमात्मा मेधावी स्तुति करनेवाले के लिए, अन्तःस्थल को खा जानेवाले व्यसन को शिथिल करता हूँ-नष्ट करता हूँ (अहम्) मैं परमात्मा (आभिः-ऊतिभिः) इन रक्षणप्रवृत्तियों द्वारा (कुत्सं हथैः-आवम्) स्तुतिकर्त्ता को घातक दुष्कर्मों से बचाता हूँ (अहम्) मैं परमात्मा (शुष्णस्य श्नथिता) शोषक शोक का नाशक हूँ, (दस्यवे वधः यमम्) दुष्टजन के लिए वधक-प्रहारक शस्त्र को देता हूँ (यः-आर्यं नाम न ररे) जो आर्य-मुझ श्रेष्ठ परमात्मा के लिए स्तुतिवचन नहीं देता है ॥३॥
भावार्थभाषाः - परमात्मा स्तुति करनेवाले के व्यसन को शिथिल करता है-नष्ट करता है और अपनी रक्षणशक्तियों द्वारा दुष्कर्मों से बचाता है, शोक को नष्ट करता है। दुष्ट को दण्डप्रहार करता है, जो कि उसकी स्तुति नहीं करता है ॥३॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (अहं कवये-अत्कं शिश्नथम्) अहं परमात्मा मेधाविने स्तोत्रे स्तुतिकर्त्रे खलु तदत्तुं शीलं व्यसनं शिथिलं करोमि नाशयामि “अत्कैः-अत्तुमर्हैः”  [ऋ० २।३५।१४ दयानन्दः] “शिश्नथत् शिथिलीकरोति” [ऋ० ४।३०।१० दयानन्दः] “श्नथति वधकर्मा” [निघ० २।१९] (अहम्) अहं परमात्मा (आभिः-ऊतिभिः) एताभिरेव रक्षणप्रवृत्तिभिः (कुत्सं हथैः-आवम्) स्तुतिकर्त्तारं घातकेभ्यो दुष्कर्मभ्यः ‘हथैः हथेभ्यः, विभक्तिव्यत्ययेन, अत्र हन् धातोः-क्थन् [उणादि० २।२] ये घ्नन्ति ते हथास्तेभ्यो हथेभ्यः’ रक्षामि (अहम्) अहं परमात्मा (शुष्णस्य श्नथिता) शोषकस्य शोकस्य नाशकोऽस्मि (दस्यवे वधः-यमम्) दुष्टजनाय वधस्-वधकं शस्त्रं प्रहारं प्रयच्छामि (यः-आर्यं नाम न ररे) यो खलु-आर्याय ‘विभक्तिव्यत्ययेन’ मह्यं परमात्मने स्तुतिवचनं न ददाति “नाम स्तुतिसाधनं शब्दमात्रम्” [ऋ० ४।१।१६ दयानन्दः] “रा दाने” [अदादिः] ॥३॥