वांछित मन्त्र चुनें

अ॒हं तदा॑सु धारयं॒ यदा॑सु॒ न दे॒वश्च॒न त्वष्टाधा॑रय॒द्रुश॑त् । स्पा॒र्हं गवा॒मूध॑स्सु व॒क्षणा॒स्वा मधो॒र्मधु॒ श्वात्र्यं॒ सोम॑मा॒शिर॑म् ॥

अंग्रेज़ी लिप्यंतरण

ahaṁ tad āsu dhārayaṁ yad āsu na devaś cana tvaṣṭādhārayad ruśat | spārhaṁ gavām ūdhassu vakṣaṇāsv ā madhor madhu śvātryaṁ somam āśiram ||

पद पाठ

अ॒हम् । तत् । आ॒सु॒ । धा॒र॒य॒म् । यत् । आ॒सु॒ । न । दे॒वः । च॒न । त्वष्टा॑ । अधा॑रयत् । रुश॑त् । स्पा॒र्हम् । गवा॑म् । ऊधः॑ऽसु । व॒क्षणा॑सु । आ । मधोः॑ । मधु॑ । श्वात्र्य॑म् । सोम॑म् । आ॒ऽशिर॑म् ॥ १०.४९.१०

ऋग्वेद » मण्डल:10» सूक्त:49» मन्त्र:10 | अष्टक:8» अध्याय:1» वर्ग:8» मन्त्र:5 | मण्डल:10» अनुवाक:4» मन्त्र:10


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (अहम्) मैं परमात्मा (आसु तत्-धारयम्) इन गौओं में या नाड़ियों में वह दूध वा रस धारण कराता हूँ (यत्-रुशत्-आसु देवः-चन त्वष्टा न-अधारयत्) जो उज्ज्वलरूप इन गौओं में या नाड़ियों में दुग्ध या रस कोई विद्वान् या शिल्पी नहीं धारण करा सकता (गवाम्-ऊधःसु वक्षणासु स्पार्हम्) गौओं के दुग्धाधार-लेवा स्थानों में या रसवहन करने में समर्थ नाड़ियों में (आ मधोः-मधु श्वात्र्यं सोमम्-आशिरम्) जब तक मधुर से मधुर जो रुचिकर कल्याणकर है, सोम का आश्रयीभूत-सोम में मिलाने योग्य दूध को, सोमौषधि को उत्पन्न करनेवाले जल को मैं धारण करता हूँ ॥१०॥
भावार्थभाषाः - गौओं में दूध और नाड़ियों में रस मनुष्य के निर्वाह के वास्ते परमात्मा ही उत्पन्न करता है-धारण करता है। ये कार्य किसी देव अग्नि आदि का काम नहीं, न किसी शिल्पी का ॥१०॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (अहम्) अहं परमात्मा (आसु तत्-धारयम्) एतासु गोषु नाडीषु वा तद् दुग्धं रसं वा धारयामि (यत्-रुशत्-आसु देवः चन त्वष्टा न-अधारयत्) यत् खलूज्ज्वलमेतासु गोषु नाडीषु वा दुग्धं रसं वा कश्चन देवः शिल्पी वा धारयितुं न शक्नोति (गवाम्-ऊधः सु वक्षणासु स्पार्हम्) गवां दुग्धाधारस्थानेषु रसवहनसमर्थासु नाडीषु वा (आ मधोः-मधु श्वात्र्यं सोमम्-आशिरम्) यावन्मधुरान्मधुरं यद्रुचिरं शिवकरं कल्याणकरम् “शिवा ह्यापस्तस्मादाह श्वात्राः शिवा स्थ” [श० ३।९।४।१६] तत्र साधु यच्छान्दसः” सोमम्-आशिरमिति सोमं सोमस्य ‘विभक्तिव्यत्ययः’ आश्रयीभूतं सोमे मिश्रणीयं दुग्धं सोमौषधे उत्पादकं नदीजलं चाहं धारयामि ॥१०॥