अ॒हं दां॑ गृण॒ते पूर्व्यं॒ वस्व॒हं ब्रह्म॑ कृणवं॒ मह्यं॒ वर्ध॑नम् । अ॒हं भु॑वं॒ यज॑मानस्य चोदि॒ताय॑ज्वनः साक्षि॒ विश्व॑स्मि॒न्भरे॑ ॥
ahaṁ dāṁ gṛṇate pūrvyaṁ vasv aham brahma kṛṇavam mahyaṁ vardhanam | aham bhuvaṁ yajamānasya coditāyajvanaḥ sākṣi viśvasmin bhare ||
अ॒हम् । दा॒म् । गृ॒ण॒ते । पूर्व्य॑म् । वसु॑ । अ॒हम् । ब्रह्म॑ । कृ॒ण॒व॒म् । मह्य॑म् । वर्ध॑नम् । अ॒हम् । भु॒व॒म् । यज॑मानस्य । चो॒दि॒ता । अय॑ज्वनः । सा॒क्षि॒ । विश्व॑स्मिन् । भरे॑ ॥ १०.४९.१
ब्रह्ममुनि
इस सूक्त में ‘इन्द्र’ शब्द से परमात्मा गृहीत है। उसकी उपासना से व्यसन कामवासनादि दोष दूर हो जाते हैं और उपासक मोक्ष को प्राप्त करते हैं इत्यादि विषय वर्णित हैं ।
ब्रह्ममुनि
अस्मिन् सूक्ते ‘इन्द्र’शब्देन परमात्मा गृह्यते। तस्योपासनेनो-पासकानां कामवासनादयो दोषा दूरीभवन्ति ते मोक्षं च प्राप्नुवन्तीत्येवमादयो विषया वर्ण्यन्ते ।