वांछित मन्त्र चुनें

मह्यं॒ त्वष्टा॒ वज्र॑मतक्षदाय॒सं मयि॑ दे॒वासो॑ऽवृज॒न्नपि॒ क्रतु॑म् । ममानी॑कं॒ सूर्य॑स्येव दु॒ष्टरं॒ मामार्य॑न्ति कृ॒तेन॒ कर्त्वे॑न च ॥

अंग्रेज़ी लिप्यंतरण

mahyaṁ tvaṣṭā vajram atakṣad āyasam mayi devāso vṛjann api kratum | mamānīkaṁ sūryasyeva duṣṭaram mām āryanti kṛtena kartvena ca ||

पद पाठ

मह्य॑म् । त्वष्टा॑ । वज्र॑म् । अ॒त॒क्ष॒त् । आ॒य॒सम् । मयि॑ । दे॒वासः॑ । अ॒वृ॒ज॒न् । अपि॑ । क्रतु॑म् । मम॑ । अनी॑कम् । सूर्य॑स्यऽइव । दु॒स्तर॑म् । माम् । आर्य॑न्ति । कृ॒तेन॑ । कर्त्वे॑न । च॒ ॥ १०.४८.३

ऋग्वेद » मण्डल:10» सूक्त:48» मन्त्र:3 | अष्टक:8» अध्याय:1» वर्ग:5» मन्त्र:3 | मण्डल:10» अनुवाक:4» मन्त्र:3


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (मह्यम्) मुझे प्रदर्शित करने को (त्वष्टा-आयसं वज्रम्-अतक्षत्) सूर्य अपने ज्योतिःस्वरूप ओज को प्रकट करता है (मयि) मेरे लिए (देवासः-क्रतुम्-अपि-अवृजन्) मुमुक्षुजन कर्म-अध्यात्मकर्म-ध्यान समर्पित करते हैं (मम-अनीकं सूर्यस्य-इव दुष्टरम्) मेरा बल-तेजोबल सूर्य जैसा अतितीक्ष्ण है (कृतेन कर्त्वेन च माम्-आर्यन्ति) पिछले किये कर्म और आगे किये जानेवाले कर्म के द्वारा मुझे प्राप्त होते हैं, फल पाने के लिए ॥३॥
भावार्थभाषाः - सूर्य अपने तापप्रकाश के देनेवाले परमात्मा को प्रदर्शित करता है। मुमुक्षुजन स्तुति-प्रार्थना-उपासना ईश्वर के प्रति समर्पित करते हैं तथा कर्म करनेवाले मनुष्य फल पाने के लिए भी परमात्मा के अधीन हैं ॥३॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (मह्यम्) मदर्थ मां द्योतयितुम् (त्वष्टा-आयसं वज्रम् अतक्षत्) सूर्यः “त्वष्टारं छेदनकर्तारं सूर्यम्” [यजु० २२।९ दयानन्दः] तेजोमयं ज्योतिर्मयम् “आयसं तेजोमयम्” [ऋ० १।८०।११२ दयानन्दः] वज्रमोजो बलं करोति “तक्षति करोतिकर्मा” [निरु० ४।१९] (मयि) मदर्थं (देवासः-क्रतुम्-अपि-अवृजन्) मुमुक्षवः कर्माध्यात्मकर्मध्यानं समर्पयन्ति (मम-अनीकं सूर्यस्य-इव दुष्टरम्) मम बलं तेजोबलं सूर्यस्य यथा तीक्ष्णतरं भवति तद्वत् (कृतेन कर्त्वेन च माम्-आर्यन्ति) कृतेनाथ कर्त्तव्येन करिष्यमाणेन च मां प्राप्नुवन्ति फलाय ॥३॥