वांछित मन्त्र चुनें

दृ॒शा॒नो रु॒क्म उ॑र्वि॒या व्य॑द्यौद्दु॒र्मर्ष॒मायु॑: श्रि॒ये रु॑चा॒नः । अ॒ग्निर॒मृतो॑ अभव॒द्वयो॑भि॒र्यदे॑नं॒ द्यौर्ज॒नय॑त्सु॒रेता॑: ॥

अंग्रेज़ी लिप्यंतरण

dṛśāno rukma urviyā vy adyaud durmarṣam āyuḥ śriye rucānaḥ | agnir amṛto abhavad vayobhir yad enaṁ dyaur janayat suretāḥ ||

पद पाठ

दृ॒शा॒नः । रु॒क्मः । उ॒र्वि॒या । वि । अ॒द्यौ॒त् । दुः॒ऽमर्ष॑म् । आयुः॑ । श्रि॒ये । रु॒चा॒नः । अ॒ग्निः । अ॒मृतः॑ । अ॒भ॒व॒त् । वयः॑ऽभिः । यत् । ए॒न॒म् । द्यौः । ज॒नय॑त् । सु॒ऽरेताः॑ ॥ १०.४५.८

ऋग्वेद » मण्डल:10» सूक्त:45» मन्त्र:8 | अष्टक:7» अध्याय:8» वर्ग:29» मन्त्र:2 | मण्डल:10» अनुवाक:4» मन्त्र:8


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (अमृतः-अग्निः-अभवत्) यह अमर-मरणधर्मरहित परमात्मा सर्वत्र स्वामिरूप में विराजता है (दृशानः) द्रष्टा (रुक्मः) रोचमान (उर्विया व्यद्यौत्) महती दीप्ति से विशिष्टरूप से प्रकाशित है-प्रकाश करता है (दुर्मर्षम्-आयुः श्रिये रुचानः) आश्रय लेनेवाले उपासक के लिए अबाध्य ज्ञान को प्रकाशित करता हुआ-प्रकट करता हुआ (सुरेताः-द्यौः-वयोभिः-यत्-एनं जनयत्) सम्यक् उत्पादक शक्तिवाले पिता की भाँति तेजो वीर्यवान् प्राणों के द्वारा इस उपासक को सम्पन्न करता है ॥८॥
भावार्थभाषाः - परमात्मा सर्वत्र एकरस विराजमान है। अबाध्य ज्ञान को विशेषरूप से अपने आश्रयी उपासक के लिए देता है और उत्तम प्राणों से समृद्ध करता है ॥८॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (अमृतः-अग्निः-अभवत्) एषोऽमरो मरणधर्मरहितः परमात्माग्निः सर्वत्र विराजते (दृशानः) द्रष्टा (रुक्मः) रोचमानः (उर्विया व्यद्यौत्) महत्या दीप्त्या विशिष्टतया प्रकाशते (दुर्मर्षम्-आयुः श्रिये रुचानः) आश्रयति यस्तस्मै-आश्रयप्राप्तये खलूपासकाय “श्रिञ् धातोः क्विप्” [उणा० २।५७] अबाध्यमापुः प्रकाशयन् प्रकटयन् (सुरेताः-द्यौः-वयोभिः-एत् एनं जनयत्) सोऽग्निः परमात्मा सम्यगुत्पादकशक्तिमान् पितेव तेजोवीर्यवान् प्राणैः “प्राणो वै वयः” [ऐ० १।२८] यतः एनमुपासकं जनयति ॥८॥