वांछित मन्त्र चुनें

त्वाम॑ग्ने॒ यज॑माना॒ अनु॒ द्यून्विश्वा॒ वसु॑ दधिरे॒ वार्या॑णि । त्वया॑ स॒ह द्रवि॑णमि॒च्छमा॑ना व्र॒जं गोम॑न्तमु॒शिजो॒ वि व॑व्रुः ॥

अंग्रेज़ी लिप्यंतरण

tvām agne yajamānā anu dyūn viśvā vasu dadhire vāryāṇi | tvayā saha draviṇam icchamānā vrajaṁ gomantam uśijo vi vavruḥ ||

पद पाठ

त्वाम् । अ॒ग्ने॒ । यज॑मानाः । अनु॑ । द्यून् । विश्वा॑ । वसु॑ । द॒धि॒रे॒ । वार्या॑णि । त्वया॑ । स॒ह । द्रवि॑णम् । इ॒च्छमा॑नाः । व्र॒जम् । गोऽम॑न्तम् । उ॒शिजः॑ । वि । व॒व्रुः॒ ॥ १०.४५.११

ऋग्वेद » मण्डल:10» सूक्त:45» मन्त्र:11 | अष्टक:7» अध्याय:8» वर्ग:29» मन्त्र:5 | मण्डल:10» अनुवाक:4» मन्त्र:11


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (अग्ने) हे अग्रणायक परमात्मन् ! (यजमानाः) अध्यात्मयज्ञ के यजमान-आत्मयाजी (त्वाम्-अनु) तेरे अनुकूल हो (द्यून्) सब दिन (विश्वा वार्याणि वसु दधिरे) सारे वरणीय धनों को धारण करते हैं-प्राप्त करते हैं (त्वया सह द्रविणम्-इच्छमानाः) तेरे साहाय्य से धन को चाहते हुए (उशिजः) मेधावी जन (गोमन्तं व्रजं वि वव्रुः) वाणीवाले ज्ञानमार्ग को विवृत करते हैं-खोलते हैं ॥११॥
भावार्थभाषाः - परमात्मा के आदेशानुकूल जीवन के सब दिनों में वरणीय धनों को मनुष्य प्राप्त करते हैं और वे अपने लिए ज्ञानमार्ग का विस्तार करते हैं ॥११॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (अग्ने) हे अग्रणायक परमात्मन् ! (यजमानाः) अध्यात्मयज्ञस्य यजमानाः-आत्मयाजिनः (त्वाम्-अनु) त्वामनुलक्ष्य (द्यून्) दिनानि प्रतिदिनम् (विश्वा वार्याणि वसु दधिरे) सर्वाणि वरणीयानि वसूनि धनानि धारयन्ति प्राप्नुवन्ति (त्वया सह द्रविणम्-इच्छमानाः) तव साहाय्येन धनमिच्छन्तः (उशिजः), मेधाविनः “उशिजः-मेधाविनाम” [निघ० ३।१५] (गोमन्तं व्रजं विवव्रुः) वाग्वन्तं ज्ञानमार्गं विवृतं कुर्वन्ति ॥११॥