वांछित मन्त्र चुनें

गि॒रीँरज्रा॒न्रेज॑मानाँ अधारय॒द्द्यौः क्र॑न्दद॒न्तरि॑क्षाणि कोपयत् । स॒मी॒ची॒ने धि॒षणे॒ वि ष्क॑भायति॒ वृष्ण॑: पी॒त्वा मद॑ उ॒क्थानि॑ शंसति ॥

अंग्रेज़ी लिप्यंतरण

girīm̐r ajrān rejamānām̐ adhārayad dyauḥ krandad antarikṣāṇi kopayat | samīcīne dhiṣaṇe vi ṣkabhāyati vṛṣṇaḥ pītvā mada ukthāni śaṁsati ||

पद पाठ

गि॒रीन् । अज्रा॑न् । रेज॑मानान् । अ॒धा॒र॒य॒त् । द्यौः । क्र॒न्द॒त् । अ॒न्तरि॑क्षाणि । को॒प॒य॒त् । स॒मी॒ची॒ने इति॑ स॒म्ऽई॒ची॒ने । धि॒षणे॒ इति॑ । वि । स्क॒भा॒य॒ति॒ । वृष्णः॑ । पी॒त्वा । मदे॑ । उ॒क्थानि॑ । शं॒स॒ति॒ ॥ १०.४४.८

ऋग्वेद » मण्डल:10» सूक्त:44» मन्त्र:8 | अष्टक:7» अध्याय:8» वर्ग:27» मन्त्र:3 | मण्डल:10» अनुवाक:4» मन्त्र:8


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (अज्रान्-रेजमानान् गिरीन् अधारयत्) वह इन्द्र परमेश्वर गतिशील कम्पमान मेघों को पृथिवी पर गिराता है (द्यौः-क्रन्दत्-अन्तरिक्षाणि कोपयत्) विद्युत् की भाँति गर्जता हुआ अन्तरिक्षस्थ लोकलोकान्तरों को कुपित करता है गति करने के लिए (समीचीने विषणे विष्कभायति) सम्मुख हुए द्यावापृथिवी को विशेषरूप से स्तम्भित करता है-थामता है (वृष्णः पीत्वा मदे-उक्थानि शंसति) उपासनाप्रवाहों को पीकर-लेकर-स्वीकार करके आनन्द देने के लिए वेदवचनों का प्रवचन करता है ॥८॥
भावार्थभाषाः - परमात्मा मेघों को बरसाता है, लोक-लोकान्तरों को चलाता है, उपासकों के उपासनारसों को स्वीकार कर वेदमन्त्र का प्रवचन करता है ॥८॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (अज्रान्-रेजमानान्-गिरीन्-अधारयत्) स इन्द्र ऐश्वर्यवान् परमात्मा गतिशीलान् कम्पयमानान् मेघान् पृथिव्यां धारयति पातयतीत्यर्थः (द्यौः-क्रन्दत् अन्तरिक्षाणि कोपयत्) विद्युदिव कम्पयन्-गर्जन्नन्तरिक्षस्थानि लोकलोकान्तराणि कोपयति चेतयति गतिं कर्त्तुम् (समीचीने धिषणे विष्कभायति) सम्मुखीभूते द्यावापृथिव्यौ “धिषणे द्यावापृथिवीनाम” [निघ० ३।१०] विशिष्टतया स्कम्भयति स्तम्भयति (वृष्णः पीत्वा मदे-उक्थानि शंसति) उपासकानामुपासनाप्रवाहान् पीत्वाऽऽदाय स्वकीयमदे-आनन्ददानाय वेदवचनानि प्रवक्ति ॥८॥