वांछित मन्त्र चुनें
देवता: इन्द्र: ऋषि: कृष्णः छन्द: त्रिष्टुप् स्वर: धैवतः

प्र यम॒न्तर्वृ॑षस॒वासो॒ अग्म॑न्ती॒व्राः सोमा॑ बहु॒लान्ता॑स॒ इन्द्र॑म् । नाह॑ दा॒मानं॑ म॒घवा॒ नि यं॑स॒न्नि सु॑न्व॒ते व॑हति॒ भूरि॑ वा॒मम् ॥

अंग्रेज़ी लिप्यंतरण

pra yam antar vṛṣasavāso agman tīvrāḥ somā bahulāntāsa indram | nāha dāmānam maghavā ni yaṁsan ni sunvate vahati bhūri vāmam ||

पद पाठ

प्र । यम् । अ॒न्तः । वृ॒ष॒ऽस॒वासः॑ । अग्म॑न् । ती॒व्राः । सोमाः॑ । ब॒हु॒लऽअ॑न्तासः । इन्द्र॑म् । न । अह॑ । दा॒मान॑म् । म॒घऽवा॑ । नि । यं॒स॒त् । नि । सु॒न्व॒ते । व॒ह॒ति॒ । भूरि॑ । वा॒मम् ॥ १०.४२.८

ऋग्वेद » मण्डल:10» सूक्त:42» मन्त्र:8 | अष्टक:7» अध्याय:8» वर्ग:23» मन्त्र:3 | मण्डल:10» अनुवाक:3» मन्त्र:8


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (वृषसवासः) वृषभ के समान बलवानों श्रेष्ठों द्वारा निष्पादनीय (बहुलान्तासः) बहुत विविध सुख अन्त में जिनके हों, ऐसे (तीव्राः सोमाः) प्रकृष्ट राज्यैश्वर्य पदार्थ (यम्-इन्द्रम्-अन्तः प्र-अग्मन्) जिस राजा के राष्ट्र में प्राप्त होते हैं, (मघवा) उस ऐसे धनवान् राजा (दामानम्) उपहारदाता को (न-अह नि यंसत्) नियन्त्रित नहीं करता है-नहीं रोकता है, अपितु (सुन्वते भूरिवामं नि वहति) राष्ट्रैश्वर्य को सम्पादित करनेवाले के लिए बहुत प्रकार के वननीय पद को समर्पित करता है ॥८॥
भावार्थभाषाः - राष्ट्र में विविध ऐश्वर्यों को अपने विविध कला व्यापार से बढ़ानेवाले जो श्रेष्ठ महानुभाव हैं, उन पर राजा किसी प्रकार के प्रतिबन्ध न लगाये, अपितु उनको राष्ट्र के ऊँचे पद व सहायता दे ॥८॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (वृषसवासः) वृषवद्भिर्बलवद्भिः श्रेष्ठैः सवाः-निष्पादनीयाः (बहुलान्तासः) बहुलं विविधं सुखमन्ते येषां ते तथाभूताः (तीव्राः सोमाः) प्रकृष्टराज्यैश्वर्यपदार्थाः (यम्-इन्द्रम् अन्तः प्र-अग्मन्) यस्य राज्ञोऽन्तः राष्ट्रान्तरे राष्ट्रमध्ये प्राप्ता भवन्ति (मघवा) तादृशो धनवान् राजा (दामानम्) उपहारदातारम् (न-अह नियंसत्) नैव नियन्त्रयति न खलु बध्नाति कार्यतोऽवरोधयति, अपितु (सुन्वते भूरिवामं निवहति) राष्ट्रैश्वर्यसम्पादयित्रे बहुविधं वननीयं पदं समर्पयति ॥८॥