वांछित मन्त्र चुनें

त्वां जना॑ ममस॒त्येष्वि॑न्द्र संतस्था॒ना वि ह्व॑यन्ते समी॒के । अत्रा॒ युजं॑ कृणुते॒ यो ह॒विष्मा॒न्नासु॑न्वता स॒ख्यं व॑ष्टि॒ शूर॑: ॥

अंग्रेज़ी लिप्यंतरण

tvāṁ janā mamasatyeṣv indra saṁtasthānā vi hvayante samīke | atrā yujaṁ kṛṇute yo haviṣmān nāsunvatā sakhyaṁ vaṣṭi śūraḥ ||

पद पाठ

त्वाम् । जनाः॑ । म॒म॒ऽस॒त्येषु॑ । इ॒न्द्र॒ । स॒म्ऽत॒स्था॒नाः । वि । ह्व॒य॒न्ते॒ । स॒म्ऽई॒के । अत्र॑ । युज॑म् । कृ॒णु॒ते॒ । यः । ह॒विष्मा॑न् । न । असु॑न्वता । स॒ख्यम् । व॒ष्टि॒ । शूरः॑ ॥ १०.४२.४

ऋग्वेद » मण्डल:10» सूक्त:42» मन्त्र:4 | अष्टक:7» अध्याय:8» वर्ग:22» मन्त्र:4 | मण्डल:10» अनुवाक:3» मन्त्र:4


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (इन्द्र) हे ऐश्वर्ययुक्त परमात्मन् ! (त्वाम्) तुझे (सन्तस्थानाः-जनाः) स्पर्धा में स्थित विरोधी जन (ममसत्येषु) मेरा सत्य कर्तव्य है जिन प्रसङ्गों में, उनमें, तथा (समीके) संग्राम में (वि ह्वयन्ते) विशेषरूप से आह्वान करते हैं (अत्र) इनमें-वहाँ (शूरः) वह प्राप्त होनेवाला परमात्मा (युजं कृणुते) मुझे सहयोगी सखा बनाता है (यः-हविष्मान्) आत्मसमर्पण कर चुका या करता है, ऐसे स्तुति करनेवाले को परमात्मा मित्र बनाता है और (असुन्वता सख्यं न वष्टि) जो उपासनारस का सम्पादन नहीं करता उसके साथ परमात्मा मित्रता नहीं चाहता ॥४॥
भावार्थभाषाः - मानव के सामने आनेवाले विरोधी जन संघर्ष लेने के लिए आह्वान करें। संग्राम में भले ही धकेलना चाहें, परन्तु उपासक-परमात्मा की स्तुति करनेवाले को घबराने की आवश्यकता नहीं। उसकी सहायता परमात्मा करता है ॥४॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (इन्द्र) हे ऐश्वर्यवन् परमात्मन् ! (त्वाम्) त्वां खलु (सन्तस्थानाः-जनाः) साम्मुख्ये स्थिता विरोधिनो जनाः (ममसत्येषु) मम सत्यं येषु कर्त्तव्यं स्यादिति प्रसङ्गेषु, अपि वा (समीके) सम्यक् प्राप्ते संग्रामे “समीके संग्रामनाम” [निघ० २।१७] (विह्वयन्ते) विशिष्टतयाऽऽह्वयन्ति (अत्र) अस्मिन् तत्र (शूरः) सः प्रापणशीलः परमात्मा (युजं कृणुते) सहयोगिनं सखायं करोति (यः-हविष्मान्) आत्मसमर्पणं कृतवान् स्तुतिं कृत्वा (असुन्वता सख्यं न वष्टि) उपासनारसमसम्पादयता सह स मित्रत्वं नेच्छति ॥४॥