वांछित मन्त्र चुनें
देवता: इन्द्र: ऋषि: कृष्णः छन्द: त्रिष्टुप् स्वर: धैवतः

किम॒ङ्ग त्वा॑ मघवन्भो॒जमा॑हुः शिशी॒हि मा॑ शिश॒यं त्वा॑ शृणोमि । अप्न॑स्वती॒ मम॒ धीर॑स्तु शक्र वसु॒विदं॒ भग॑मि॒न्द्रा भ॑रा नः ॥

अंग्रेज़ी लिप्यंतरण

kim aṅga tvā maghavan bhojam āhuḥ śiśīhi mā śiśayaṁ tvā śṛṇomi | apnasvatī mama dhīr astu śakra vasuvidam bhagam indrā bharā naḥ ||

पद पाठ

किम् । अ॒ङ्ग । त्वा॒ । म॒घ॒ऽव॒न् । भो॒जम् । आ॒हुः॒ । शि॒शी॒हि । मा॒ । शि॒श॒यम् । त्वा॒ । शृ॒णो॒मि॒ । अप्न॑स्वती । मम॑ । धीः । अ॒स्तु॒ । श॒क्र॒ । व॒सु॒ऽविद॑म् । भग॑म् । इ॒न्द्र॒ । आ । भ॒र॒ । नः॒ ॥ १०.४२.३

ऋग्वेद » मण्डल:10» सूक्त:42» मन्त्र:3 | अष्टक:7» अध्याय:8» वर्ग:22» मन्त्र:3 | मण्डल:10» अनुवाक:3» मन्त्र:3


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (अङ्ग मघवन् शक्र-इन्द्र) हे अध्यात्मधनवाले सबको पालने में समर्थ परमात्मन् ! (किं त्वा भोजम्-आहुः) तुझे मेधावीजन भोगदाता कहते हैं (मा शिशीहि) मेरे प्रति-मेरे लिए अपना अध्यात्मधन-भोग दे (त्वा शिशयं शृणोमि) मैं तुझे देनेवाला सुनता हूँ (मम धीः-अप्नस्वती अस्तु) मेरी बुद्धि कर्मवाली-क्रियाशील हो (नः) हमारे लिए (वसुविदं भगम्-आ भर) समस्त धनों को प्राप्त करानेवाले अध्यात्म ऐश्वर्य को आभरित कर-मेरे अन्दर भर दे ॥३॥
भावार्थभाषाः - परमात्मा सबका पालन करने में समर्थ है, वह अपनी कृपा से सबको यथायोग्य भोग देता है। विशेषतः उपासक को आध्यात्मिक ऐश्वर्य भी प्रदान करता है। उसकी उपासना करनी चाहिए ॥३॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (अङ्ग मघवन् शक्र-इन्द्र) हे अध्यात्मधनवन् सर्वपालने समर्थ परमात्मन् ! (किं त्वा भोजम्-आहुः) अहो ! त्वां भोजयितारं भोगदातारं विप्राः कथयन्ति (मा शिशीहि) मां प्रति-मह्यं तदध्यात्मधनं भोगं वा देहि “शिशीहि-शिशीतिर्दानकर्मा” [निरु० ५।२३] (त्वा शिशयं शृणोमि) अहमपि त्वां दातारं शृणोमि (मम धीः-अप्नस्वती-अस्तु) मम बुद्धिः कर्मवती कर्मपरायणा भवतु “अप्नः कर्मनाम” [निघ० २।१] (नः) अस्मभ्यम् (वसुविदं भगम्-आभर) समस्तधनानां प्रापयितारमध्यात्मैश्वर्यमाभरितं कुरु-देहि ॥३॥