वांछित मन्त्र चुनें

अ॒ध्व॒र्युं वा॒ मधु॑पाणिं सु॒हस्त्य॑म॒ग्निधं॑ वा धृ॒तद॑क्षं॒ दमू॑नसम् । विप्र॑स्य वा॒ यत्सव॑नानि॒ गच्छ॒थोऽत॒ आ या॑तं मधु॒पेय॑मश्विना ॥

अंग्रेज़ी लिप्यंतरण

adhvaryuṁ vā madhupāṇiṁ suhastyam agnidhaṁ vā dhṛtadakṣaṁ damūnasam | viprasya vā yat savanāni gacchatho ta ā yātam madhupeyam aśvinā ||

पद पाठ

अ॒ध्व॒र्युम् । वा॒ । मधु॑ऽपाणिम् । सु॒ऽहस्त्य॑म् । अ॒ग्निध॑म् । वा॒ । धृ॒तऽद॑क्षम् । दमू॑नसम् । विप्र॑स्य । वा॒ । यत् । सव॑नानि । गच्छ॑थः । अतः॑ । आ । या॒त॒म् । म॒धु॒ऽपेय॑म् । अ॒श्वि॒न्चा ॥ १०.४१.३

ऋग्वेद » मण्डल:10» सूक्त:41» मन्त्र:3 | अष्टक:7» अध्याय:8» वर्ग:21» मन्त्र:3 | मण्डल:10» अनुवाक:3» मन्त्र:3


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (अश्विना) हे प्राणापान ! (मधुपाणिम्-अध्वर्युं वा) मधुर स्तुतिकर्त्ता मन को (सुहस्त्यम्) अच्छी हस्तक्रियावाले-दानादिशील-(अग्निधम्) ज्ञानप्रकाश परमात्मा को धारण करनेवाले (घृतदक्षम्) बलयुक्त (दमूनसम्) दान्तमनवाले को अथवा उपासक को (विप्रस्य सवनानि वा गच्छथः) या मेधावी के ज्ञानकार्य को प्राप्त होओ (अतः) अत एव (मधुपेयम्-आयातम्) मधु-आनन्द पेय है जिसमें, ऐसे मोक्ष की ओर ले चलो ॥३॥
भावार्थभाषाः - जो मनुष्य मन से परमात्मा का मनन, हाथों से यथाशक्ति दान, संयतमन होकर करता है, उस ऐसे मेधावी पुरुष के प्राण अपान जीवन के सच्चे सुख और मोक्ष को प्राप्त करने के निमित्त बनते हैं ॥३॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (अश्विना) हे प्राणापानौ ! (मधुपाणिम्-अध्वर्युं वा) मधुरस्तुतिकर्तृ मनस् तद्वन्तमात्मानम् “मनो वा अध्वर्युः” [श० १।५।१।२१] (सुहस्त्यम्) सुहस्तक्रियायुक्तं दानादिकार्यशीलम् (अग्निधम्) ज्ञानप्रकाशकपरमात्मनः धारकम् (घृतदक्षम्) घृतं बलं येन तमात्मबलवन्तम् (दमूनसम्) दान्तमनसम् “दमूना दान्तमनाः” [४।५] यद्वोपासकम् (विप्रस्य सवनानि वा गच्छथः) मेधाविनः मेधया कार्यविधातुर्ज्ञानकार्याणि वा प्राप्नुथः (अतः) अतएव (मधुपेयम्-आयातम्) आनन्दः पेयो यस्मिन् तं मोक्षं समन्ताद् गमयतम् ॥३॥