वांछित मन्त्र चुनें

प्रा॒त॒र्युजं॑ नास॒त्याधि॑ तिष्ठथः प्रात॒र्यावा॑णं मधु॒वाह॑नं॒ रथ॑म् । विशो॒ येन॒ गच्छ॑थो॒ यज्व॑रीर्नरा की॒रेश्चि॑द्य॒ज्ञं होतृ॑मन्तमश्विना ॥

अंग्रेज़ी लिप्यंतरण

prātaryujaṁ nāsatyādhi tiṣṭhathaḥ prātaryāvāṇam madhuvāhanaṁ ratham | viśo yena gacchatho yajvarīr narā kīreś cid yajñaṁ hotṛmantam aśvinā ||

पद पाठ

प्रा॒तः॒ऽयुज॑म् । ना॒स॒त्या॒ । अधि॑ । ति॒ष्ठ॒थः॒ । प्रा॒तः॒ऽयावा॑नम् । म॒धु॒ऽवाह॑नम् । रथ॑म् । विशः॑ । येन॑ । गच्छ॑तः । यज्व॑रीः । न॒रा॒ । की॒रेः । चि॒त् । य॒ज्ञम् । होतृ॑ऽमन्तम् । अ॒श्वि॒ना॒ ॥ १०.४१.२

ऋग्वेद » मण्डल:10» सूक्त:41» मन्त्र:2 | अष्टक:7» अध्याय:8» वर्ग:21» मन्त्र:2 | मण्डल:10» अनुवाक:3» मन्त्र:2


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (नासत्या) हे नासिका में होनेवाले (नरा) शरीर के नेता (अश्विना) शीघ्रगामी प्राण-अपानो ! (प्रातर्यावाणम्) प्रातःकाल के समान शुभगतिवाले (मधुवाहनम्) माधुर्य प्राप्त करानेवाले (रथम्) रमणीय मोक्ष को (अधितिष्ठथः) स्वानुकूल कराते हो (येन यज्वरीः-विशः-गच्छथः) जिस को लक्ष्य करके अध्यात्मयाजी मनुष्यप्रजाओं को तुम प्राप्त होते हो (कीरेः-होतृमन्तं यज्ञं चित्) स्तुतिकर्त्ता आत्मावाले अध्यात्मयज्ञ को प्राप्त होते हो ॥२॥
भावार्थभाषाः - नासिका के प्राण और अपान-श्वास और प्रश्वास, प्राणायाम के ढंग से प्रातः चलाने से मधुरता प्राप्त करानेवाले मोक्ष की ओर ले जाते हैं। अध्यात्मयज्ञ करनेवाली प्रजाओं को यथार्थरूप से प्राप्त होते हैं-कार्य करते हैं। स्तुतिकर्त्ता आत्मा के अध्यात्मयज्ञ को भली-भाँति चलाते हैं ॥२॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (नासत्या) हे नासायां भवौ ! (नरा) शरीरस्य नेतारौ ! (अश्विना) आशुगन्तारौ प्राणापानौ ! “अश्विनौ द्व्यक्षरेण प्राणापानौ” [तै० १।११।१] “अश्विनौ प्राणापानौ” [यजु० २१।६० दयानन्दः] (प्रातर्यावाणम्) प्रातर्वच्छुभगतिमन्तम् (मधुवाहनम्) माधुर्यप्राप्तिकरम् (रथम्) रमणीयं मोक्षम् (अधितिष्ठथः) अधितिष्ठापयथः ‘अन्तर्गतो णिजर्थः’ (येन यज्वरीः-विशः-गच्छथः) यमनु-यं मोक्षमभिलक्ष्य युवामध्यात्मयाजिनीः प्रजाः-मनुष्यप्रजाः प्राप्नुथः (कीरेः-होतृमन्तं यज्ञं चित्) स्तोतुः “कीरिः स्तोतृनाम” [निघ० ३।१६] आत्मवन्तम् “आत्मा वै होता” [कौ० ४।६] अध्यात्मयज्ञं चित् प्राप्नुथः ॥२॥