वांछित मन्त्र चुनें

न तस्य॑ विद्म॒ तदु॒ षु प्र वो॑चत॒ युवा॑ ह॒ यद्यु॑व॒त्याः क्षेति॒ योनि॑षु । प्रि॒योस्रि॑यस्य वृष॒भस्य॑ रे॒तिनो॑ गृ॒हं ग॑मेमाश्विना॒ तदु॑श्मसि ॥

अंग्रेज़ी लिप्यंतरण

na tasya vidma tad u ṣu pra vocata yuvā ha yad yuvatyāḥ kṣeti yoniṣu | priyosriyasya vṛṣabhasya retino gṛhaṁ gamemāśvinā tad uśmasi ||

पद पाठ

न । तस्य॑ । वि॒द्म॒ । तत् । ऊँ॒ इति॑ । सु । प्र । वो॒च॒त॒ । युवा॑ । ह॒ । यत् । यु॒व॒त्याः । क्षेति॑ । योनि॑षु । प्रि॒यऽउ॑स्रियस्य । वृ॒ष॒भस्य॑ । रे॒तिनः॑ । गृ॒हम् । ग॒मे॒म॒ । अ॒श्वि॒ना॒ । तत् । उ॒श्म॒सि॒ ॥ १०.४०.११

ऋग्वेद » मण्डल:10» सूक्त:40» मन्त्र:11 | अष्टक:7» अध्याय:8» वर्ग:20» मन्त्र:1 | मण्डल:10» अनुवाक:3» मन्त्र:11


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (अश्विना) हे शिक्षित वृद्ध स्त्री-पुरुषो ! (तस्य तत्-उ सु न विद्म) हम नवगृहस्थ के उस सुफल को नहीं जानते हैं (प्र वोचत) तुम हमें उसका उपदेश दो (युवा ह यत्-युवत्याः-योनिषु क्षेति) जो युवा पति युवति पत्नी के साथ घरों में निवास करता है (प्रियोस्रियस्य) प्रिया-प्यारी उत्साही पत्नीवाले (रेतिनः) रेतस्वी-वीर्यवाले (वृषभस्य) वीर्यसेचक वर के (गृहं गमेम) घर को प्राप्त हों-जावें (उश्मसि) हम ये कामना करते हैं ॥११॥
भावार्थभाषाः - वृद्ध स्त्री-पुरुषों को नवविवाहित, गृहस्थधर्म के संचालन में समर्थ के घर में गृहस्थ आश्रम को सुचारु रूप में चलाने के लिए तथा उनके यहाँ सुसन्तान हो, यह कामना रखते हुए जाना चाहिए ॥११॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (अश्विना) हे शिक्षितौ स्थविरौ स्त्रीपुरुषौ ! (तस्य तत् उ सु न विद्म) वयं नवगृहस्थाः तस्य गृहस्थाश्रमस्य तदेव सुफलं न जानीमः (प्रवोचत) इदमुपदिशत, ‘बहुवचनमादरार्थम्’ (युवा ह यत्-युवत्याः-योनिषु क्षेति) यत्-युवा युवत्या गृहेषु गृहसम्बन्धिनीषु निवसति (प्रियोस्रियस्य) प्रिया-उस्रिया उत्साहिनी युवतिर्वधूर्यस्य तस्य वरस्य (रेतिनः) रेतस्विनो वीर्यवतः (वृषभस्य) वीर्यं सेक्तुं समर्थस्य (गृहं गमेम) गृहं गच्छावः, अत्र तयोः स्वीकारोक्तिः स्त्रीपुरुषयोः “अस्मदो द्वयोश्च” [अष्टा०१।२।५९] द्विवचने बहुवचनम् (उश्मसि) वयं कामयामहे ॥११॥