वांछित मन्त्र चुनें

पु॒रा॒णा वां॑ वी॒र्या॒३॒॑ प्र ब्र॑वा॒ जनेऽथो॑ हासथुर्भि॒षजा॑ मयो॒भुवा॑ । ता वां॒ नु नव्या॒वव॑से करामहे॒ऽयं ना॑सत्या॒ श्रद॒रिर्यथा॒ दध॑त् ॥

अंग्रेज़ी लिप्यंतरण

purāṇā vāṁ vīryā pra bravā jane tho hāsathur bhiṣajā mayobhuvā | tā vāṁ nu navyāv avase karāmahe yaṁ nāsatyā śrad arir yathā dadhat ||

पद पाठ

पु॒रा॒णा । वा॒म् । वी॒र्या॑ । प्र । ब्र॒व॒ । जने॑ । अथो॒ इति॑ । ह॒ । आ॒स॒थुः॒ । भि॒षजा॑ । म॒यः॒ऽभुवा॑ । ता । वा॒म् । नु । नव्यौ॑ । अव॑से । क॒रा॒म॒हे॒ । अ॒यम् । ना॒स॒त्या॒ । श्रत् । अ॒रिः । यथा॑ । दध॑त् ॥ १०.३९.५

ऋग्वेद » मण्डल:10» सूक्त:39» मन्त्र:5 | अष्टक:7» अध्याय:8» वर्ग:15» मन्त्र:5 | मण्डल:10» अनुवाक:3» मन्त्र:5


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (नासत्या भिषजा) हे सत्यज्ञानवाले ओषधिचकित्सक और शल्यचिकित्सक ! तथा आग्नेय सोम्य पदार्थो ! रोगनिवारक ! (वाम्) तुम दोनों के (पुराणा वीर्या जने प्र ब्रव) पुरातन कृत्यों को जनसमुदाय में घोषित करते हैं (अथ-उ) और (मयोभुवा ह-आसथुः) कल्याण के भावित करनेवाले अवश्य होओ (ता वां नव्या नु-अवसे करामहे) तुम दोनों की रक्षार्थ प्रशंसा करते हैं (अयम्-अरिः-श्रत्-दधत्) यह तुम्हें प्राप्त करनेवाला, उपयोग करनेवाला जन तुम्हारे प्रति श्रद्धा करता है ॥५॥
भावार्थभाषाः - ओषधिचिकित्सक और शल्यचिकित्सक तथा आग्नेय सोम्य पदार्थ रोगी को अच्छा करने में समर्थ हों। वे इस कार्य में प्रशंसा के योग्य होते हैं ॥५॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (नासत्या भिषजा) हे नासत्यौ सत्यज्ञानवन्तौ-ओषधि-शल्यचिकित्सकौ तद्वज्ज्योतिष्प्रधानरसप्रधानाग्नेयसोम्यपदार्थौ रोगनिवारकौ ! (वाम्) युवयोः (पुराणा वीर्या जने प्रब्रव) पुरातनानि कृत्यानि जनसमुदाये प्रब्रवीमि (अथ-उ)  अथ च (मयोभुवा-ह-आसथुः) कल्याणस्य भावयितारौ हावश्यं भवथः (ता वां नव्यौ नु-अवसे करामहे) तौ युवां स्वरक्षायै स्तुत्यौ कुर्मः (अयम्-अरिः-श्रत्-दधत्) अयं प्रापक उपयोगकर्त्ता जनः श्रद्धां कुर्यात् ॥५॥