वांछित मन्त्र चुनें

आ तेन॑ यातं॒ मन॑सो॒ जवी॑यसा॒ रथं॒ यं वा॑मृ॒भव॑श्च॒क्रुर॑श्विना । यस्य॒ योगे॑ दुहि॒ता जाय॑ते दि॒व उ॒भे अह॑नी सु॒दिने॑ वि॒वस्व॑तः ॥

अंग्रेज़ी लिप्यंतरण

ā tena yātam manaso javīyasā rathaṁ yaṁ vām ṛbhavaś cakrur aśvinā | yasya yoge duhitā jāyate diva ubhe ahanī sudine vivasvataḥ ||

पद पाठ

आ । तेन॑ । या॒त॒म् । मन॑सः । जवी॑यसा । रथ॑म् । यम् । वा॒म् । ऋ॒भवः॑ । च॒क्रुः । अ॒श्वि॒ना॒ । यस्य॑ । योगे॑ । दु॒हि॒ता । जाय॑ते । दि॒वः । उ॒भे इति॑ । अह॑नी॒ इति॑ । सु॒दिने॒ इति॑ सु॒ऽदिने॑ । वि॒वस्व॑तः ॥ १०.३९.१२

ऋग्वेद » मण्डल:10» सूक्त:39» मन्त्र:12 | अष्टक:7» अध्याय:8» वर्ग:17» मन्त्र:2 | मण्डल:10» अनुवाक:3» मन्त्र:12


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (अश्विना) हे आग्नेय-सोम्य पदार्थों ! तथा उन जैसे गुणवाले सुशिक्षित स्त्रीपुरुषो ! तुम दोनों (तेन मनसः-जवीयसा-आयातम्) मन के तुल्य वेगवान् रथ से-गतिप्रवाह से या यानविशेष से यहाँ पृथ्वी पर या हमारे घर में आओ-आते हो (यं रथम्-ऋभवः-वां चक्रुः) जिस रथ गतिप्रवाह या यानविशेष को अथवा गृहस्थ को, वैद्यत अणु तरङ्गें या वैज्ञानिक शिल्पी जन करते हैं (यस्य योगे) जिसके जोड़ने पर (दिवः-दुहिता जायते) द्युलोक-प्रकाशवाले आकाश की दुहिता सदृश उषा या उस जैसी कमनीय नववधू घर को प्राप्त होती है (विवस्वतः-उभे-अहनी सुदिने) सूर्य के या विशेष वास करानेवाले स्थविर गृहस्थ के (उभे) दोनों दिन-रात या शोभनजीवनकालसम्पादक पुत्र और पुत्री प्राप्त होते हैं ॥१२॥
भावार्थभाषाः - सुरक्षित स्त्री-पुरुष बड़े वेगवाले रथयान से इधर-उधर जाकर यात्रा करें। नववधू गृहस्थ में आकर उत्तम पुत्र-पुत्रियाँ उत्पन्न करें। आग्नेय सोम्य पदार्थों के द्वारा शिल्पी वैज्ञानिक लोग यथार्थ याननिर्माण करें ॥१२॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (अश्विना) हे अश्विनौ ! अग्निसोम्यपदार्थौ तद्धर्मवन्तौ सुशिक्षितौ स्त्रीपुरुषौ वा “अश्विनौ सुशिक्षितौ स्त्रीपुरुषौ” [यजु० ३८।१ दयानन्दः] युवाम् (ते मनसः-जवीयसा-आयातम्) तेन मनसोऽपि वेगवता शीघ्रगामिना रथेन गतिप्रवाहेण यानविशेषेण वा अत्र पृथिवीमस्माकं गृहं वाऽऽगच्छतम् (यं रथम्-ऋभवः-वां चक्रुः) यं रथं गतिप्रवाहं यानविशेषं गृहस्थं वा, वैद्युततरङ्गाः “ऋभवः-उरु भान्ति” [निरु० ११।१५] शिल्पिनो वैज्ञानिकाः “येन हरी मनसा निरतक्षत तेन देवत्वमृभवः समाशत” [ऋ० ३।६०।२] “ऋभू रथस्येवाङ्गानि सन्दधत् परुषा परुः [अथर्व० ४।१२।७] मेधाविनः “ऋभुः-मेधाविनाम” [निघ० ३।१५] कुर्वन्ति-आचरन्ति (यस्य योगे) यस्य योजने सति (दिवः-दुहिता जायते) द्युलोकस्य प्रकाशवतः-आकाशस्य दुहिता-उषाः, तदिव वा कमनीया नववधूः प्रादुर्भवति-गृहमागच्छति (विवस्वतः-उभे अहनी सुदिने) आदित्यस्य “विवस्वतः-आदित्यस्य” [निरु० १२।११] विशेषेण वासकर्त्तुः स्थविरस्य गृहस्थस्य वा (उभे) द्वे-अहोरात्रौ शोभनजीवनकालसम्पादकौ पुत्रपुत्र्यौ प्राप्येते ॥१२॥