वांछित मन्त्र चुनें

वि॒श्वाहा॑ त्वा सु॒मन॑सः सु॒चक्ष॑सः प्र॒जाव॑न्तो अनमी॒वा अना॑गसः । उ॒द्यन्तं॑ त्वा मित्रमहो दि॒वेदि॑वे॒ ज्योग्जी॒वाः प्रति॑ पश्येम सूर्य ॥

अंग्रेज़ी लिप्यंतरण

viśvāhā tvā sumanasaḥ sucakṣasaḥ prajāvanto anamīvā anāgasaḥ | udyantaṁ tvā mitramaho dive-dive jyog jīvāḥ prati paśyema sūrya ||

पद पाठ

वि॒श्वाहा॑ । त्वा॒ । सु॒ऽमन॑सः । सु॒ऽचक्ष॑सः । प्र॒जाऽव॑न्तः । अ॒न॒मी॒वाः । अना॑गसः । उ॒त्ऽयन्त॑म् । त्वा॒ । मि॒त्र॒ऽम॒हः॒ । दि॒वेऽदि॑वे । ज्योक् । जी॒वाः । प्रति॑ । प॒श्ये॒म॒ । सू॒र्य॒ ॥ १०.३७.७

ऋग्वेद » मण्डल:10» सूक्त:37» मन्त्र:7 | अष्टक:7» अध्याय:8» वर्ग:13» मन्त्र:1 | मण्डल:10» अनुवाक:3» मन्त्र:7


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (सूर्य) हे सर्वप्रकाशक परमात्मन् ! (त्वा) तुझे (विश्वाहा) सर्वदा (सुमनसः) पवित्र अन्तःकरणवाले या प्रसन्न मनवाले (सुचक्षसः) पवित्र दृष्टिवाले-शोभन दृष्टिवाले या प्रशस्त नेत्रशक्तिवाले (प्रजावन्तः) प्रशस्त सन्तानवाले (अनमीवाः) रोगरहित (अनागसः) निष्पाप (जीवः) हम जीव (मित्रमहः) मित्रों स्नेही उपासकों द्वारा प्रशंसनीय, स्तुतियोग्य परमात्मन् ! या प्राणों को बढ़ानेवाले ! (त्वा) तुझको (दिवे-दिवे) प्रतिदिन (प्रतिपश्येम) प्रत्यक्ष साक्षात् करें ॥७॥
भावार्थभाषाः - परमात्मा का सक्षात्कार पवित्र मनवाले तथा प्रतिदिन उसकी स्तुति करनेवाले किया करते हैं और वे लोग निरोग एवं उत्तम सन्ततिवाले बन जाते हैं ॥७॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (सूर्य) सर्वप्रकाशक परमात्मन् ! (त्वा) त्वाम् (विश्वाहा) सर्वदा (सुमनसः) पवित्रान्तःकरणाः प्रसन्नमनसो वा (सुचक्षसः) पवित्रदृष्टिमन्तः शोभनदृष्टिमन्तः प्रशस्तनेत्रशक्तिका वा (प्रजावन्तः) प्रशस्तसन्ततिमन्तः (अनमीवाः) अरोगाः (अनागसः) निष्पापाः सन्तः (जीवाः) वयं जीवाः (मित्रमहः) स्नेहिभिः-स्नेहकर्तृभिरुपासकैः प्रशंसनीय स्तोतव्य परमात्मन् ! यद्वा प्राणानां वर्धयितः ! “प्राणो वै मित्रः” [श० ६।५।१।५] (त्वां) त्वाम् (दिवेदिवे) प्रतिदिनम् (प्रतिपश्येम) साक्षात्कुर्याम, प्रत्यक्षं पश्येम वा ॥७॥